SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सप्तभङ्गनिरूपणम् । भागेन यस्माद्विशेषितम् , तथाहि अवयवेन विशिष्टधर्मेण यदादिश्यते तदस्ति च नास्ति प भवति, तथा स्वद्रव्यक्षेत्रकालभावविभक्तो घटः स्वद्रव्यादिरूपेणास्ति परद्रव्यादिरूपेण च स एव नास्ति, तथा च पुरुषादिवस्तु विवक्षितपर्यायेण बालादिना परिणतं कुमारादिना चापरिणतमित्यादिष्टमिति योज्यम् ॥ ३७॥ अथ पञ्चमं भङ्गं प्रदर्शयतिसम्भावे आइट्ठो देसो देसो य उभयहा जस्स। तं अत्थि अवत्तव्वं च होइ दवि वियप्पवसा ॥ ३८ ॥ सद्भावे आदिष्टो देशो देशश्च उभयथा यस्य । तदस्ति अवक्तव्यञ्च भवति द्रव्यं विकल्पवशात् ॥ छाया ॥ सद्भाव इति, यस्य घटादेर्धर्मिणो देशो धर्मोऽस्तित्वेऽवक्तव्यानुविद्धस्वभावे आदिष्टः, 10 अन्यथा तदयोगात् , न ह्यपरधर्माप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वं सम्भवति, खरविषाणादेरिव । तस्यैवापरो देश उभयथा आदिष्टः, अस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः, अस्तित्वानुविद्ध एवावक्तव्यस्वभावः, अन्यथा तदसत्त्वप्रसक्तेः, न ह्यस्तित्वाभावे उभयाविभक्तता शशशृङ्गादेरिव तस्य सम्भविनी, भङ्गोऽयं केवलप्रथमतृतीयभङ्गसंयो. गात्मको न, विवक्षाविशेषात् , तत्र हि अस्तित्वं नावक्तव्यताऽनुविद्धं परस्पराविशेषणभूतयोः 15 प्रतिपाद्येनाधिगन्तुमिष्टत्वात्, अत्र तु तथाभूतधर्माकान्ततयेति तद्व्यं अस्ति चावक्तव्यश्च भवति तद्धर्मविकल्पनवशात् , धर्मयोस्तथापरिणतयोस्तथाव्यपदेशे धर्म्यपि तद्वारेण तथैव व्यपदिश्यते ॥ ३८ ॥ षष्ठं भङ्गमाह आइट्ठोऽसम्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ॥ ३९ ॥ आदिष्टोऽसद्भावे देशो देशश्च उभयथा यस्य । तनास्ति अवक्तव्यञ्च भवति द्रव्यं विकल्पवशात् ॥ छाया ॥ आदिष्ट इति, यस्य वस्तुनो देशोऽसत्त्वे निश्चितः, असन्नेवायमित्यवक्तव्यानुविद्धः, अपरश्वासदनुविद्धः उभयथा सन्नसंश्चेत्येवं युगपनिश्चितस्तदा तव्यं नास्ति चावक्तव्यश्च 25 भवति विकल्पवशात् , तद्व्यपदेश्यावयववशात् , द्रव्यमपि तद्व्यपदेशमासादयति, केवल. द्वितीयतृतीयभङ्गव्युदासेन पष्ठो भङ्गः ॥ ३९ ॥ 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy