________________
सम्मतितत्वसोपाने
[ द्वाविंशम् अथ सप्तमं भङ्गमाह
सम्भावासभावे देसो देसो य उभयहा जस्स। तं अस्थि णस्थि अवत्तव्वयं च दवियं वियप्पवसा ॥ ४० ॥ सद्भावासद्भावयोर्देशो देशश्च उभयथा यस्य ।
तदस्ति नास्ति अवक्तव्यकञ्च द्रव्यं विकल्पवशात् ॥ छाया ।। सद्भावेति, यस्य देशिनो देशोऽवयवो धर्मो वा सद्भावे निश्चितः अपरस्त्वसद्भावे, तृतीयस्तु उभयथा, इत्येवं देशानां सदसदवक्तव्यव्यपदेशात्तदपि द्रव्यमस्ति च नास्ति चावक्तव्यश्च भवति, तथाभूत विशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरभङ्गानां व्यु.
दासः । एते च परस्पररूपापेक्षया सप्तभङ्गयात्मकाः प्रत्येकं स्वार्थ प्रतिपादयन्ति नान्यथेति 10 प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति व्यवस्थितम् ।
अत्र प्रत्येकभङ्गानां भेदविशेषा अन्यग्रन्थेभ्योऽवसेयाः । अनन्तधर्मात्मके वस्तुति न तत्प्रतिपादकवचनस्य सप्तवचनातिरिक्तस्याष्टमस्य सम्भवः, तत्परिकल्पने विशिष्टनिमित्ताभावात् कल्प्यमानवचनानामत्रैवान्तर्भावादिति ॥ ४० ॥
अन्योन्यापरित्यागेन व्यवस्थितस्वरूपवाक्यनयानां शुद्ध्वशुद्धिविभागेन संग्रहादिव्यप15 देशमासादयतां द्रव्यार्थिकपर्यायाथिकनयावेव मूलाधार इत्यादर्शयति
एवं सत्तवियप्पो वयणपहो होइ अत्थपज्जाए। वजणपज्जाए उण सवियप्पो णिब्वियप्पो य ।। ४१ ॥
पवं सप्तविकल्पो वचनपथो भवति अर्थपर्याये ।
व्यञ्जनपर्याये पुनः सविकल्पो निर्विकल्पश्च ॥ छाया ॥ 20 एवमिति, उक्तप्रकारेण सप्तविधो वचनमार्गः सङ्ग्रहव्यवहारर्जुसूत्ररूपेऽर्थनये सर्वो
भवति, तत्र सामान्यपाहिणि सङ्ग्रहे प्रथमः, विशेषग्राहिणि व्यवहारे द्वितीयः, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः सप्तमश्च सङ्ग्रहव्यवहारर्जुसूत्रेषु । व्यञ्जनपर्याये शब्दनये सविकल्पः, प्रथमे पर्यायशब्दवाच्य
ताविकल्पसद्भावेऽप्यर्थस्यैकत्वात् , द्वितीयतृतीययोनिर्विकल्पः, द्रव्यार्थात्सामान्यलक्षणानि25 गैतपर्यायाभिधायकत्वात् , समभिरूढस्य पर्यायभेदभिन्नत्वात् , एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् , लिङ्गसंज्ञा क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वात् । शब्दादिषु तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पश्चमषष्ठसप्तमवचनमार्गा भवन्ति ।
"Aho Shrutgyanam"