________________
सोपानम् ] सप्तभनिरूपणम् ।
: १७३ अथवाऽर्थनय एव सप्तभङ्गाः, शब्दादिषु त्रिषु प्रथमद्वितीयावैव मङ्गो, यो यर्थमाश्रित्य वक्तरि सङ्ग्रहव्यवहारर्जुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तेः, असौ हि प्रधानतयाऽर्थ व्यवस्थापयति, शब्दं स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि तच्छब्दश्रवणादुद्गच्छति शब्दसमभिरूढैवम्भूताख्यः प्रत्ययः तस्य शब्दः प्रधानम् , तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं तदुत्पत्तौ तस्यानिमित्तत्वात् , स शब्द. 5 नय उच्यते । तत्र च सविकल्पनिर्विकल्पतया वचनमार्गो द्विविधः, सविकल्पं सामान्य निर्विकल्पः पर्यायः, तदभिधानाद्वचनमपि तथा व्यपदिश्यते, तत्र शब्दसमभिरूढौ संज्ञा क्रियाभेदेऽप्यभिन्नमर्थ प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः । एवम्भूतस्तु क्रियाभेदाद्भिन्नमर्थ तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गरूपस्तद्वचनमार्गः। अवक्तव्यभङ्गकस्तु व्यञ्जननये न सम्भवत्येव, यतः श्रोत्राभिप्रायो व्यञ्जननयः, स च 10 शब्दश्रवणादर्थ प्रतिपाद्यते न शब्दाश्रवणात्, अवक्तव्यं तु शब्दाभावविषय इति नावक्तव्यभङ्गको व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्पनिर्विकल्पौ प्रथम द्वितीयावेव भङ्गावभिहितावाचार्येण, चशब्दस्य गाथायामेवकारार्थत्वादिति ॥ ४१ ॥
इदानी परस्पररूपापरित्यागेन प्रवृत्तः सङ्ग्रहादिनयैः प्रादुर्भूतास्तथाविधा एव वाक्यनयास्तथाविधार्थप्रतिपादका इत्युक्त्वाऽन्यथाभ्युपगमे तेषामप्यध्यक्षविरोधतोऽभाव एवेत्येत- 15 दुपदर्शनाय केवलानां तेषां तावन्मतमुपन्यस्यति--
जह दवियमप्पियं तं तहेव अस्थित्ति पन्जवणयस्स । ण य स समयपन्नवणा पज्जवणयमेत्तपडिपुण्णा ।। ४२ ।।
यथा द्रव्यमर्पितं तत्तथैवास्तीति पर्यवनयस्य । न च स समयप्रज्ञापना पर्यवनयमात्रपरिपूर्णा ॥ छाया ||
20 यथेति, यथा वर्तमानकालसम्बन्धितया यद्रव्यं प्रतिपिपादयिषितं तत्तथैव वर्तते नान्यथा, अनुत्पन्नविनष्टतया भाविभूतयोरविद्यमानत्वेनाप्रतिपत्तेः अप्रतीयमानयोश्च प्रतिपादयितुमशक्तेरतिप्रसङ्गात् , वर्तमानसम्वन्धिन एव तस्य प्रतिपत्तेरिति पर्यायार्थिकनयवाक्यस्याभिप्रायः । तथाविधस्स वाक्यनयः द्रव्यनयनिरपेक्षे सति सम्यगर्थप्ररूपणायां न परिपूर्णोऽतः समयप्रज्ञापना न परिपूर्णा, सावधारणकान्तप्रतिपादनरूपस्य पर्यायनयस्याभ्यक्षबा- 25 धनादिति भावः ॥ ४२ ॥
द्रव्यार्थिकवाक्यनयेऽप्ययमेव न्याय इत्याह
"Aho Shrutgyanam"