________________
: १७४ :
5
10
सम्मतितरवसोपाने
पडिपुण्णजोब्वणगुणो जह लज्जइ बालभावचरिएण । कुणइ य गुणपणिहाणं अणागयसुहोवहाणत्यं ॥ ४३ ॥
25
परिपूर्ण यौवनगुणो यथा लज्जते बालभावचरितेन । करोति च गुणप्रणिधानं अनागतसुखोपधानार्थम् || छाया || परिपूर्णेति, यथा सम्प्राप्तयौवनगुणः पुरुषो बालभावसंवृत्तनिजानुष्ठानुस्मरणात् पूर्वमहमप्यस्पृश्यसंस्पर्शादिव्यवहारमनुष्ठितवानिति लज्जते मयैतस्मात्सुखसाधनात्सुखमाप्तव्यमिति चानागतसुखप्राप्त्यर्थं उत्साहादिगुणेष्वैकाग्र्यं करोति, अनेनातीतानागतवर्त्तमानानामैक्यमुकं भवति ॥ ४३ ॥
अत्रापि मते यथावस्थितवस्तुस्वरूपप्ररूपणं न परिपूर्ण मित्याह-
ण य होइ जोवणत्थो बालो अण्णो विलजइ ण तेण । ण विय अणागयवयगुणसाहणं जुज्जह विभन्ते ॥ ४४ ॥
न च भवति यौवनस्थो बालोऽन्योऽपि लज्जते न तेन । नापि चानागतवयोगुणसाधनं युज्यतेऽविभक्ते ॥ छाया ||
न चेति, यौवनस्थः पुरुषो न च बालो भवति, अपि तु अन्य एव तेन बालचरिते15 नान्योऽपि न लज्जते पुरुषान्तरवत्, नाभ्यनागतवृद्धावस्था सुखादिप्रसाधनार्थमत्यन्ताभेदेऽविचलितस्वरूपतया तस्य प्रयत्नः सम्भवति, तस्मान्नाभेदमात्रं तत्त्वं कथञ्चिद्भेदव्यवहारप्रतीतिबाधितत्वात् नापि भेदमात्रम्, एकत्वव्यवहारप्रत्ययनिराकृतत्वादिति भेदाभेदात्मकं तत्त्वमभ्युपगन्तव्यमन्यथा सकलव्यवहारोच्छेदप्रसङ्गः ॥ ४४ ॥
9
एवमभेदभेदात्मकस्य पुरुषतत्त्वस्य यथाऽतीतानागतदोषगुणनिन्दाभ्युपगमाभ्यां सम्ब20 न्धः तथैव भेदाभेदात्मकस्य तस्य सम्बन्धादिभिर्योग इति दृष्टान्तदाष्टन्तिकोपसंहारार्थमाह
[ द्वाविंशम्
जाइकुलरूवलक्खणसण्णासंबंधओ अहिगयस्स |
बालाइ भावदिविगयस्स जह तस्स संबंधो ॥ ४५ ॥
जातिकुल रूपलक्षण संज्ञासम्बन्धतोऽधिगतस्य । बालादिभावदृष्टविगतस्य यथा तस्य सम्बन्धः ॥ छाया ॥
जातीति, पुरुषत्वादिजात्या प्रतिनियतपुरुषजन्यत्व लक्षणकुलेन चक्षुर्ग्राह्यरूपादिना तिलकादिलक्षणेन प्रतिनियतशब्दाभिधेयत्व लक्षणसंज्ञया च यस्तदात्मपरिणामरूपः सम्बन्धरतमाश्रित्याधिगतस्य तदात्मकत्वेनाभिन्नावभास विषयस्य, अथवा सम्बन्धो जन्यजनकभावः,
"Aho Shrutgyanam"