Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
सर्वोपयोगविचारः ।
पदुत्पत्तिवत् । ननु हेतौ सत्यपि श्रुताद्यावरणक्षयोपशमे श्रुताद्यनुत्पद्यमानमपि कदाचिद् दृष्टमित्यनैकान्तिको हेतु:, न श्रुतादौ क्षीणावैरणत्वस्य हेतोरभावात् श्रुतादेः क्षीणोपशान्तावरणत्वात् । भिन्नावरणत्वादेव च श्रुतावधिवन्नैकत्वमेकान्ततो ज्ञानदर्शनयोरेकदोभयाभ्युपगमवादेनैव ॥ ५९ ॥
यज्जातीये यो दृष्टस्तज्जातीय एवासावन्यत्राप्यभ्युपगमार्हो न जात्यन्तरे घूमवत् पाव- 5 केतरभावाभावयोः, अन्यथानुमानादिव्यवहारविलोपप्रसङ्गादित्याह
भण्णइ खीणावरणे जह मइणाण जिणे ण संभवइ । तह वीणावरणिजे विसेसओ दंसणं नत्थि ।। ३० ।।
भण्यते क्षीणावरणे यथा मतिज्ञानं जिने न संभवति । तथा क्षीणावरणीये विश्लेषतो दर्शनं नास्ति || छाया ||
भण्यत इति, यथा मतिश्रुतावधिमनः पर्यवज्ञानानि जिने न सम्भवतीत्यभ्युपगम्यते तथा तत्रैव क्षीणावरणीये ज्ञानोपयोगादन्यदा दर्शनं न सम्भवतीत्यभ्युपगन्तव्यम्, क्रमोपaritr मत्याद्यात्मकत्वात् तदभावे तदभावात् ॥ ६० ॥
क्रमवादिनो न केवलमनुमानविरोधोऽपि त्वागमविरोधश्चेत्याह
सुत्तंमि वेव साई अपज्जवसियं ति केवलं वृत्तं । सुत्तामायण भीरूहिं तं च दव्वयं होइ ॥ ६१ ॥
:.230:
सूत्रे चैच साद्यपर्यवसितमिति केवलमुक्तम् । सूत्रासातन भीरुभिस्तच्च द्रष्टयं भवति || छाया ॥
१ मतिश्रुतज्ञानावरणयोरेकदा क्षयोपशमेऽपि यथा तदुपयोगक्रमः तथा ज्ञानदर्शनावरणयोर्युगपत्येऽपि केवलिन्युपयोगक्रमः स्यादिति शंकाशयः ॥ २ श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन शब्दादौ प्रत्यक्षादिसामग्याः प्रतिबन्धकत्वेन च तत्सम्भव:, अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभाव प्रतिबध्यप्रतिबन्धकभावाद्यभावेन विशेष इति भावः ॥ ३ क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वादित्यर्थः । सामान्यविशेषोभयालम्बनकोपयोगत्वस्य चावग्रहाद्यात्मकत्सव्याप्यत्वात् केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यभिप्रायः तथा च केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिकं, तदेककालीन सामग्रीकत्वात् तादृशकार्यान्तरवदित्यनुमानप्रयोगः फलितः ॥
"Aho Shrutgyanam"
10
सूत्र इति, आगमे केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वमुक्तम, क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता स्यात्, अतः क्रमोपयोगवादिभिः सूत्रासा- 20 तनाभीरुभिः, ' केवलणाणे णं भंते ' इत्याद्यागमोक्तं पर्यालोचनीयं भवति, अत्र सूत्रासा तना सर्वज्ञाधिक्षेप द्वारेण, अचेतनस्य वचनस्याधिक्षेपायोगात् । न च द्रव्यापेक्षयाऽपर्यंत्र
15

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420