Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितस्य सोपाने
"
द्भावप्रतिपादकं प्रमाणञ्च यथा ह्यस्मदादीनां गवादिषु आकृतिगुणक्रियाऽवयवसंयोगनिमित्तोऽश्वादिबुद्धिव्यावृत्तः प्रत्ययो दृष्टः, तद्यथा गौः शुक्कुः शीघ्रगतिः पीनककुदो महाघण्ट इति यथाक्रमम्, तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासम्भवाद्यद्बलात् प्रत्येकं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालवि5 प्रकर्षदृष्टे च स एवायमिति प्रत्यभिज्ञानं यतो भवति ते योगिनां विशेषप्रत्ययोनीतसत्त्वा अन्त्या विशेषाः सिद्धाः, ते च यथास्वं प्रत्येकमाश्रयमाश्रिताः योगिनां प्रत्यश्वत एव सिद्धाः तदध्यचारु, नित्यद्रव्यवृत्तित्वान्त्यद्रव्य भावित्वस्वरूप लक्षणस्यासम्भवदोषग्रस्तत्वात्, न हि नित्यं किञ्चिद्रव्यमस्ति तस्य पूर्वमेव निरस्तत्वात्, तत्कथमेषां तद्वृत्तित्वं सिद्ध्येत् । यदपि विशेषाणां सत्त्वं योगिनां विशेषप्रत्ययबलात्साध्यते तत्रानैकान्तिकता 10 हेतो:, तथाहि किमण्वादीनां स्वरूपं परस्परमसङ्कीर्णम्, उत मिश्रीभूतम् आये स्वत एवासकीर्णवस्तू पलम्भात्तेषु योगिनां परस्परवैलक्षण्यवुद्धिर्भविष्यतीति व्यर्था तत्प्रकल्पना, द्वितीये तु परस्पर मिश्रीभूतस्वभावेषु तेषु कथमिव विशेषपदार्थसन्निधानेऽपि योगिनां विलक्षणं ज्ञानमभ्रान्तमुत्पद्यते, भ्रान्तमेव तत्स्यात् अतस्मिंस्तथावृत्तत्वात् ततश्च ते कथं योगिनः । किन विशेषपदार्थाभावे यदि विलक्षणबुद्धिर्न स्यात्तर्हि कथं विशेषेषु परस्परविलक्षण बुद्धिः स्यात्, 15 अपरविशेषाश्चेदनवस्थाप्रसङ्गः, नित्यद्रव्यवृत्तित्वाभ्युपगमहानिप्रसङ्गश्च विशेषेष्वपि वृत्तेः । अथ तेषां वैलक्षण्यमतिः स्वत उच्यते तर्हि परमाण्वादयोऽपि स्वत एव तद्धेतवो भविष्यन्तीति किं विशेषैः । अथानवस्थाप्रसङ्गेन विशेषेषु विशेषान्तराभावेऽप्युपचारतस्तद्बुद्धिर्भवतीति चेन्न, तथाविधज्ञानवतामयोगित्वप्रसक्तेः, तद्बुद्धेर्विशेषा इवेति स्खलद्रूपतया प्रवृत्तौ अनि र्णयबुद्ध्यधिकरणत्वात्, तत्र विशेषा एवेत्यस्खलद्रूपज्ञानवत्वेऽप र विशेषरहित विशेषाणां पर20 माण्वादीनामिवाविशेषरूपतया ज्ञाने तस्य विपर्यस्तरूपत्वेन तज्ज्ञानवतां योगित्वासम्भवाञ्च । न च बाधकोपपत्तेर्विशेषेषु व्यावृत्तबुद्धिर्न त्वपरविशेषादिति वाच्यम्, परमाण्वादिष्वपि भिन्नाभिन्नव्यावृत्तरूपकरणानुपपत्तेर्बाधकस्य सद्भावेन तत एव व्यावृत्तबुद्धिसम्भवात् । न व यथा श्वमांसादेः स्वत एवाशुचित्वं तद्योगाच्च परेषाम्, यथा वा अतदात्मकेष्वपि अन्यनिमित्त: प्रत्ययो भवति, यथा घटादिषु प्रदीपान्न तु प्रदीपेषु घटादिभ्यः, तथा विशे25 षेषु स्वत एव व्यावृत्तिप्रत्ययस्तद्योगात् परमाण्वादिष्वितीति वाच्यम्, भावानामशुचित्वस्य कल्पनोपरचितत्वात् यदेव कस्यचिच्छ्रोत्रियादेरशुचित्वेनाभाति तदेव कापालिकादेः शुचित्वेन, न चैकस्याने कविरुद्धधर्मसमावेशो युक्तः, एकत्वहानिप्रसङ्गात् । अशुचित्वस्य पारमार्थिकत्वेऽपि नात्र दृष्टान्तस्तुल्यः, अशुचिद्रव्यसम्पर्कणान्नादिभावानां परित्यक्तशुचिस्वभावानां परिगृहीताशुचिस्वभावतयोत्पादात् परमाण्वादीनान्तु नित्यत्वेन परोपाधिकवैलक्षण्यासम्भ
: ३०६ :
"Aho Shrutgyanam"
[ द्वात्रिंशम्

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420