Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 391
________________ सोपानम् ] आर्त्तादिध्यानवर्णनम् । : ३३९ : तद्विधीयमानं काम्यमानफलसद्भावेऽपि तत्कर्मनिमित्तं तद्भवत्येव । न च हिंसातः स्वर्गसुखप्राप्ताव सुख निर्वर्त्तक क्लिष्टकर्म हेतुताऽसङ्गता, नरेश्वराराधननिभित्तब्राह्मणादिवधानन्तरावाप्रप्रामादिलाभजनित सुखसम्प्राप्तौ तद्वधस्यापि तथात्वोपपत्तेः । अथ ग्रामादिलाभो ब्राह्मणादिवधनिर्वर्त्तितादृष्टनिमित्तो न भवति तर्हि स्वर्गादिप्राप्तिरप्यध्वरविहितहिंसानिर्वर्तिता न भवतीति समानम् । अथाश्वमेधादावालभ्यमानानां छागादीनां स्वर्गप्राप्तेर्न तद्धिसा 5 हिंसेति तर्हि संसारमोचकविरचिताऽपि तत एव हिंसा न हिंसा स्यात्, देवतोद्देशतो म्लेच्छादिविरचिता च ब्राह्मणगवादिहिंसा न हिंसा स्यात् । अथ तदागमस्याप्रमाणत्वं तद्वेदस्यापि तुल्यम्, गुणवत्पुरुषप्रणीतत्वस्यापौरुषेयत्वस्य वा परैरनभ्युपगमात् तन्न प्रदशिताभिप्रायाद्विना हिंसातो धर्मावाप्तिर्युक्ता । परमप्रकर्षावस्थ ज्ञानदर्शनचारित्रात्मक मुक्तिमार्गस्य दीक्षाशब्देनाभिधाने दीक्षातो मुक्तिरुपपन्नैव, अविकलकारणस्य कार्यंनिर्वर्त्तकत्वात्, 10 अन्यथा करणत्वायोगात् । तत्र तद्भक्त्युत्पादनार्थं चैवमभिधानाददोषः, न हि तद्भक्तयभावे उपादेयफलप्राप्तिनिमित्तसम्यग्ज्ञानादिपुष्टिनिमित्त दीक्षाप्रवृत्तिप्रवणो भवेत्, तन्नान्यपरत्वं प्रदर्शितवचसामभ्युपगन्तव्यम्, तथाऽभ्युपगमे वा अनाप्तत्यं तद्वादिनां प्रसज्येत तत्र पूर्वोक्तदोषानतिवृत्तेः || ६० ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्द सूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितस्वसोपाने सन्मार्गप्रदर्शनं नाम सप्तत्रिंशं सोपानम् ॥ »0k अथाऽऽर्त्तादिध्यानवर्णनम् । त्वविवेचितागमप्रतिपत्तिमाश्रयन्ते तेऽनवगतपरमार्था एवेत्याह पाडेक्कनय पहगयं सुत्तं सुत्तहरसद्दसंतुट्ठा । अविकोवियसामत्था जहागमविभत्तपडिवत्ती ॥ ६१ ॥ प्रत्येकनयपथगतं सूत्रं सूत्रधरशब्दसन्तुष्टाः । अविकोविदसामर्थ्या यथागमाविभक्तप्रतिपत्तयः ॥ छाया ॥ प्रत्येकेति, प्रत्येकनयमार्गगतं सूत्रम् यथा ' क्षणिकाः सर्वे संस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः ! यदिदं त्रैधातुकम् ' इति, ' ग्राह्यग्राहको भयशून्यं तत्त्वम् ' इति, नित्यमेकमण्डव्यापि निष्क्रियम्' इत्यादि, 'सदकारणवन्नित्यम् ' इति, ' आत्मा रे श्रोतव्यो ज्ञात " Aho Shrutgyanam" 15 20 25

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420