Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 390
________________ सम्मतितस्वसोपाने [ समत्रिंशम् स्यैकान्तवाद्यभ्युपगतस्य सर्वस्य पारमार्थिकत्वादभिष्वङ्गादिप्रतिषेधार्थ विज्ञानमात्राभिधानस्य सार्थकत्वात् , तथाहि अहमस्यैवायं ममैवेत्येकान्तनित्यत्वस्वस्वामिसम्बन्धाभिनिवेशप्रभवरागादिप्रतिषेधपरं क्षणिकरूपादिप्रतिपादनं युक्तमेव, सालम्बनज्ञानकान्तप्रतिषेधपरं विज्ञानमात्राभिधानम् , सर्वविषयाभिष्वङ्गनिषेधपरं शून्यताप्रकाशनम् , क्षणिक एवायं पृथि5 व्यादिरित्येकान्ताभिनिवेशमूलद्वेषादिनिषेधपरं तन्नित्यत्वप्रणयनम् , जात्यादिमदोन्मूलतानु गुणमात्माद्यद्वैतप्रकाशनम् , जन्मान्तरजनितकर्मफलभोक्तृत्वमेव धर्मानुष्ठानमित्येकान्तनिरा. सप्रयोजनं परलोकाभावावबोधनम् , द्रव्याद्यव्यतिरेकैकान्तप्रतिषेधाभिप्रायं तद्भेदाख्यानम् , अप्रमत्तस्य योगनिबन्धनप्राणव्यपरोपणस्याहिंसात्वप्रतिपादनाथ हिंसातो धर्म इति वचनम् , रागद्वेषमोहतृष्णादिनिबन्धनस्य प्राणव्यपरोपणस्य दुःखसंवेदनीयफलनिर्वर्तकत्वेन हिंसा10 स्वोपपत्तेः, अत एव वैदिक हिंसाया अपि तन्निमित्तत्वेऽपायहेतुत्वमन्यहिंसावत् प्रसक्तम् , न च तस्या अतन्निमित्तत्वम् , चित्रया यजेत पशुकाम इति तृष्णानिमित्तत्व श्रवणात् । न चैवं. विधस्य वाक्यस्य प्रामाण्यमपि, तत्प्राप्तिनिमित्ततद्धिसोपदेशकत्वात् , तृष्णादिवृद्धिनिमित्ततदन्यतद्विघातोपदेशवाक्यवत् । न चापौरुषेयत्वादस्य प्रामाण्यं तस्य निषिद्धत्वात् । न च पुरुषप्रणीतस्य हिंसाविधायकस्य तस्य प्रामाण्यम् , ब्राह्मणो हन्तव्य इति वाक्यवत् । न च 15 वेदविहितत्वात्तद्धिंसाया अहिंसात्वम , प्रकृत हिंसाया अपि तस्वोपपत्तेः । न च ब्राह्मणो न हन्तव्य इति तद्वाक्यबाधितत्वान्न प्रकृतहिंसायास्तद्विहितत्वम् , न वै हिंस्रो भवेदिति वेदबाक्यबाधितचित्रादियजनवाक्यविहित हिंसावत् प्रकृतहिंसायास्तद्विहितत्वोपपत्तेः । अथ ब्राह्मणो हन्तव्य इतिवाक्यं न कचिद्वेदे श्रूयते, न, उत्सन्नानेकशाखानां तत्राभ्युपगमात् , तथा च सहस्रव िसामवेद इत्यादिश्रुतिः । अथ यज्ञादन्यत्र हिंसाप्रतिषेधः, तत्र च तद्वि. 20 धानम् , यथा चान्यत्र हिंसाऽपायहेतुरित्यागमात् सिद्धं तथा तत एव तत्र स्वर्गहेतुरित्यपि सिद्धम् , न च यदेकदा एकत्रापायहेतुः तत्सर्वदा सर्वत्र तथेत्यभ्युपगन्तव्यम् , आतुरस्वस्थभुजिक्रियावदवस्थादिभेदेन भावानां परस्परविरुद्ध फलकतत्वोपलम्भात् , असम्यगेतत् , तृष्णादिनिमित्तहिंसाया अपायहेतुत्वेन सर्वशास्त्रेषु प्रसिद्धः, तृष्णादिनिमित्ता च प्रकृतहिंसेत्युक्त. त्वात् । न च यन्निमित्तत्वेन यत् प्रसिद्धं तत्फलान्तरार्थित्वेन विधीयमानमौत्सर्गिक दोषं न निर्वतयति, यथाऽऽयुर्वेदप्रसिद्धं दाहादिकं रुगपगमार्थितया विधीयमानं स्वनिमित्तं दुःखम् , क्लिष्टकर्मसम्बन्धहेतुतया च मखविधानादन्यत्र हिंसादिकं शाने प्रसिद्धमिति सप्ततन्तावपि १ न च जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः, यतः तदर्शनात् गुणानुरागितया भव्यानां बोधिलाभः, पूजातिशयविलोकनादिना च मनःप्रसादस्ततः समाधिः, ततश्च क्रमेण निःश्रेयसभाप्तिरिति स्वल्पपुण्यव्ययेनापरिमितसुकृतसम्प्राप्तिरस्ति, न तु वैदिकहिंसायां तथा, यमनियमाद्युपायान्तरतोऽपि स्वर्गावाप्तिसम्भवादिति ।। 26 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420