Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 404
________________ सम्मतिवस्त्र सोपाने [ एकोनचत्वारिंशम् किमिति नावधारयत्यर्थान्, न च तदर्थावधारणं परामर्शरूपम्, तच्च न सम्भवति, उपहतमनस्कत्वादिति वाच्यम्, पदश्रवणस्याप्यवधारणात्मकत्वादतदात्मकस्य च तच्छ्रवणस्य स्वापमदमूर्च्छादिवि परमार्थतोऽश्रवणरूपत्वात्, अविकल्पज्ञानस्याज्ञानरूपत्वाच्च । अपि पूर्वपदानुविद्धमन्त्यपदं हि वाक्यम्, पूर्वपदानि च स्वाभिधेयविशिष्टतया चरमपदप्रति5 पत्तिकाले परामृश्यमानानि वाक्यार्थप्रतिपत्तिजनकानि, तथा च पदार्थावगमे वाक्यस्यैव स्वार्थाभिसम्बद्धतयाऽनवगमात् कथं ततो वाक्यार्थप्रतिपत्तिः भवेत्, तथाहि गौर्गच्छतीतिवाक्यप्रयोगे गोशब्दात् सामान्यविशेषात्मकं गवार्थं गच्छत्यादिक्रियासापेक्षं प्राक् प्रतिपद्यते, गच्छतीत्येतस्माच्च तमेव प्रतिनियतगमिक्रियावच्छिन्नमवगच्छति, ततः क्रियाद्यवच्छिन्नः सामान्यविशेषात्मको वाक्यार्थो व्यवतिष्ठते पदसमुदायात्मकाद्वाक्यात् पदार्थों10 त्मकस्यैव तस्य प्रतिपत्तेः, यस्मिन्नुश्चरिते यः प्रतीयते स एव तस्यार्थ इति शाब्दिकानां व्यवहारात्, तस्मात् पदेभ्यः पदार्थप्रत्ययः पदार्थेभ्यो वाक्यार्थप्रत्यय इत्यपास्तम्, अतो नाभिहितान्वयः । नाप्यन्वितानां क्रियाकारकादीनामेकान्ततोऽभिधानम्, पदार्थान्तरासक्तपदार्थस्यैव पदेनाभिधाने प्रथमपदेनैव वाक्यार्थस्याभिधानेन शेषपदोच्चारणवैयर्थ्यप्रसङ्गात् प्रतिपदं वाक्यरूपताप्रसक्तेः गौरित्युक्तौ गच्छतीत्यादिक्रियाविशेषाकांक्षाभावप्रसङ्गाच्च, तत 15 एव क्रियाविशेषसंसर्गस्यावगतत्वात् । किञ्च विशेषाणामानन्त्यात् संकेतकरणासम्भवादसङ्केतितस्य चातिप्रसङ्गतः प्रतिपादकत्वायोगात् पदार्थानां विशेषप्रत्यायनसामर्थ्यं न स्यात्, सामान्यस्य चार्थक्रियाऽनिर्वर्त्तकत्वेन व्यापित्वेन चानयनादिक्रियासंसर्गाभावान्न पदप्रतिपाद्यतेति कथमन्विताभिधानं स्यात् तस्मात् सामान्यशब्दार्थवादिप्रकल्पितं पदाभिधेयं सामान्यं न सम्भवति, विशेषाः शब्दवाच्या इति द्वितीयपक्षोऽपि न युक्तः, एकस्यैव 20 विशेषस्य शब्दवाच्यत्वे विवक्षितदुग्ध शब्दवाच्यत्वं एकविशेषव्यतिरेकेणान्येषां न स्यात्, सर्वेषां विशेषाणां वाच्यत्वे चैकस्मिन्नपि पयसि तद्बहुत्वप्रसङ्गः, परस्परविविक्तपयः परमाणूनां तत्रानेकत्वात्, तद्व्यतिरेकेण पयसोऽनभ्युपगमात् तथा तस्याप्रतीतेश्च । न चैककार्यकारितयैकत्वव्यपदेशः, तस्यापि वस्तुत्वे तद्रूपत्वात् अवस्तुत्वे कार्यविरोधात् । तेषामेकत्रैव सामर्थ्यं तस्यैकस्यैकपरमाणुरूपत्वेऽनुपलभ्यताप्रसङ्गात्, अनेकाणुरूपत्वे एककार्यत्वविरोधात् एकस्य तत्कर्तृकत्वविरोधाच्च, स्थूलैकवस्तुनस्तदेक कार्यत्वे तस्य समानरूपत्वं स्यात् स्वारम्भीवयवद्रव्यव्यापकैकरूपत्वादेवञ्च विशेषमात्रवादत्यागः स्यात् । तृतीय विकल्पोऽपि प्रत्येकपक्षभावदोषप्रसङ्गान्नाभ्युपगंतुं युक्तः, परस्परनिरपेक्ष सामान्यविशेषयोरभावेनाङ्गुलिद्वयाभावे तत्संयोगवत्सदारब्धो भयवादायोगात् । प्रतिनियत सामान्य विशेषयोरनभिधाने प्रवृत्त्यादिव्य १ स्वस्यारंभकद्रव्येषु ब्यापकतया वर्त्तमानं यदेकं तस्य सामान्यरूपत्वादिति भावः ॥ १५२ 25 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420