Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
: ३५० :
सम्मतितरवसोपाने
[ एकोनचत्वारिंशम्
वगमेऽपि शब्दशक्तिस्वाभाव्यात्तत्पदं तमर्थमेव बोधयतीति चेत्तर्हि गवादिपदान्यप्यनवगतसम्बन्धानि शब्दशक्त्यैव स्वार्थप्रत्यायकानि स्युः । अपि च विधेर्वाक्यश्रवणानन्तरं प्रति - भासो यदि स्वीक्रियते तन्न सम्भवति, वाक्यश्रवणानन्तरं पुरुषस्यैवाऽध्येषणादिविशिष्टतया प्रतीतेः, पुरुषञ्चात्मानमेव वाक्यात् कर्मणि नियुज्यमानमवगच्छति, तदवगमाबेच्छयैव प्रव5 र्त्तते, अत एव प्रवृत्तिरप्यन्यथा सिद्धेति नासौ लिङर्थमवगमयति तस्मात् पुरुषव्यापारान्यथानुपपत्त्या विधिप्रतीतिरित्यप्यभ्युपगमो निरस्तः । प्रवृत्त्यन्यथानुपपत्त्या निमित्तमात्रस्यैवावगते, प्रत्यक्षादेरपि हि हेयमुपादेयञ्चार्थमवगत्य निवर्त्तन्ते प्रवर्तन्ते वा प्राणिनः, न च तत्र विधेर्नित्रर्तकत्वं प्रवर्त्तकत्वं वेष्यते, एवमिहाभिप्रेतफलार्थी अध्येषणादेरिच्छातो वा प्रवर्त्तेत । अध्येषणादेश्च यदाध्येषणा तदा तस्या एव यदा च प्रेषणा तदा तस्या एव यथासम्भवं 10 प्रवर्त्तकतासम्भवान्न व्यभिचारित्वम्, अन्यथा रक्ततन्त्वभावेऽपि शुक्लतन्तुभ्यः पटोत्पत्तौ रक्ततन्तवः पटकारणं न स्युः, तस्मान्न विधेः प्रवर्त्तकत्वम् । एवं न हिंस्यादिति प्रतिषेधविधिरपि प्रत्युक्तः, नायं विधिर्ननर्थे प्रेरयति, तस्याभावरूपत्वेन तत्र विधेः प्रवर्त्तकत्वासम्भ वात्, न ह्यक्रियात्मके नव्यर्थे कस्यचित्प्रेरकत्वम् । न च वधप्रवृत्तं पुरुषं निवर्त्तयति प्रति
I
विधिरिति वाच्यम्, प्रतिषेधेनैव निवर्त्तितत्वात्तत्र विधेर्वैयर्थ्यात् । न च भावनायां विषय15 वा विधेः प्रवर्त्तकत्वम्, पुरुषस्य रागत एव तत्र प्रवृत्त्यां विधेर्व्यर्थत्वात्, विविप्रवृत्तप्रवत्तकः, रागात् प्रवृत्तस्य प्रवर्त्तने विधित्वायोगात् । न च नन्सम्बद्धभावनायां नमर्थसम्बद्धधात्वर्थे वा प्रेरकत्वं वाच्यम्, अभावरूपत्वेन तस्य प्रवृत्तिविषयत्वानुपपत्तेः । न च हिंसनविशिष्टायां भावनायां रागात् प्रवर्त्तमानः पुरुषः प्रतिषेधपर्युदस्तायां विधिना नियुज्यत इति वक्तव्यम्, अभावविशिष्टाया भावनाया विधिविषयत्वायोगात्, न चासौ हिंसनाभाव20 विशिष्टा विधिविषयतां प्रतिपद्यते, अभावस्याव्यापाररूपतया भावनां प्रति व्यवच्छेदकत्वायोगात् । न च नजुपहितो हिंसतिरभक्ष्यास्पर्शनीयन्यायेन हिंसनव्यतिरिक्तधात्वर्थान्तराभिधायकत्वात् तदवच्छिन्नां भावनां प्रकाशयति सा च विधिगोचरचारिणीति वाच्यम्, हिंसनव्यतिरिक्तधात्वर्थमात्र विशिष्टायां भावनायां विधेः प्रवर्त्तकत्वस्यैव सम्प्राप्तेः, न तु निवर्त्तकत्वस्य, विधेश्च प्रवर्तकत्वं न सम्भवतीति पूर्वमेव प्रतिपादितम्, नातो विधेः प्रवर्त्तकत्वं 25 निवर्तकत्वं वा मीमांसकाभिप्रायेण सम्भवति । अन्ये तु वाक्यार्थो भावना, सा च भाव्येऽर्थे स्वर्गादिके पुरुषस्य व्यापारः, किं केन कथमिति त्र्यंशपरिपूर्णा, किमिति स्वर्ग केनेति दर्शपूर्णमास्यादिना भावयन् कथमिति प्रयोगादिव्यापाररूपा मितिकत्र्तव्यतां दर्शयति, इथं भावना पदार्थप्रतिपाद्या, पदानां वाक्यार्थप्रतिपादने सामर्थ्याभावात्, पदानि हि न वाक्यार्थं बोधयंति, स्वार्थप्रतिपादनमात्रेण तद्व्यापारस्य निवृत्तेः, वाक्यार्थबोधकत्व चान्वयव्यतिरेका
"Aho Shrutgyanam"

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420