Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
मुनिवखादिसमर्थनम् । वहाराभावप्रसङ्गेनानुभयविकल्पस्वीकारोऽपि न सङ्गतः । न चानुभयपक्षः सम्भवति, अन्योन्यव्यवच्छेदरूपयोरन्यतरनिषेधस्य तदपरविधिनान्तरीयकत्वात् । परस्परापेक्षया द्वयोरप्युपसर्जनत्वे निरपेक्षत्वे चासत्त्वमेव सापेक्षत्वे चेतरेतराश्रयः, द्वयोरपि प्राधान्ये सापेक्षत्वानु. पपत्तेरसत्त्वमेव, अन्यतरस्यैवोपसर्जनत्वे निमित्तानुपपत्तिः । द्वयोरप्यौदासीन्याभ्युपगमेऽ. व्यवहार्यता स्यात् । तदतदात्मकैकवस्तुनो यथाक्षयोपशमं प्रमाणतः प्रधानोपसर्जनरूपतया 5 प्रतिपत्त्यभ्युपगमे स्यात्सामान्यविशेषात्मकं बरिस्वत्य शेषरूपात्मकवस्तुप्रतिपादकत्वेन शब्दादेः प्रमाणभूतप्रतिपत्तिनिबन्धनस्याभ्युपगमादनेकान्तमतानुप्रवेशः समानासमानपरिणामात्मकैकवस्तुप्रतिपादकत्वेन शब्दादेरभ्युपगमात् । तदेवमेकान्तवादिप्रकल्पितस्य प्रमाणप्रमेयादेः सर्वस्याघटमानत्वात्तच्छासनं दृष्टवददृष्टार्थेऽपि विसंवादित्वादप्रमाणम् , तत्प्रतिपक्षभूतश्च यथोक्तजीवादितत्त्रप्रकाशकं सर्वत्र दृष्टार्थेऽव्यभिचारित्वाददृष्टार्थेऽपि सहेतुके 10 हेयोपादेयस्वरूपे बन्धमोक्षलक्षणे वस्तुतत्त्वे प्रमाणमिति स्थितम् , अतः पूर्वापरैकवाक्यतया सकलानन्तधर्मात्मकजीवादितत्त्वप्रतिपादकसूत्रसन्दर्भस्य नयप्रमाणद्वारेण प्रवृत्तस्य तात्पर्यार्थज्ञाता सिद्धान्तज्ञाता, न पुनरपरिहतविरोधतदेकदेशज्ञाता, न चैकदेशज्ञः स्याद्वादप्ररूपणायाः सम्यक्समर्थ इति व्यवस्थितम् ॥ ६३ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसरीश्वरचरणानलिनविन्यस्तभक्तिभरण तपधरेण विजय
लब्धिसूरिणा सङ्कलिते सम्मतितत्त्वसोपाने वचन_ विचारो नाम एकोनचत्वारिंशं सोपानम् ॥
13
20
अथ मुनिवस्त्रादिसमर्थनम् । सूत्रस्य सूचनार्थत्वादर्थवशात्तस्य निष्पत्तिः, न तु सूत्रमात्रेणैवान्यनिरपेक्षेणार्थनिष्पत्तिरित्याह---
सुत्तं अस्थनिमेणं न सुत्तमेत्तेण अत्यपडिवत्ती। अत्थगई उण णयवायगहणलीणा दुरभिगम्मा ।। ६४ ॥ सूत्रमर्थनिमेनं न सूत्रमात्रेणार्थप्रतिपत्तिः ।
अर्थगतिः पुनर्नयवादगहनलीना दुरधिगम्या ॥ छाया ॥ १ कस्योपसर्जनतेत्यत्र निमित्तं नोपलभ्यते, इदमेवोपसर्जन नान्यदित्यत्र नियामकाभावादिति भावः ॥
25
"Aho Shrutgyanam"

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420