Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ।
स्त्रीमुक्तिसाधनम् ।
सम्यग्दर्शनस्य सम्यग्ज्ञानादभेदात् ज्ञानक्रिययोरन्यतरविकलयोर्नाशेषकर्मक्षयलक्षणफलनिर्वर्त्तकत्वं सम्भवतीति प्रतिपादयति-
: ३६३ :
णणं किरियारहियं किरियामेतं च दो वि एगंता । असमत्था दाएउं जम्ममरणदुक्ख मा भाइ ॥ ६८ ॥ ज्ञानं क्रियारहितं क्रियामात्रश्च द्वावप्येकान्तौ । असमर्थौ दर्शयितुं जन्ममरणदुःखेभ्यो मा भैषीः ॥ छाया ॥
ज्ञानमिति, यथावज्जीवादितत्त्वप्रकाशकं ज्ञानं यथोक्तानुष्ठानरहितं जन्ममरणदुःखेभ्यो मा भैषीरिति दर्शयितुमसमर्थम, न हि ज्ञानमात्रेणैव पुरुषो भयेभ्यो मुच्यते क्रियारहितत्वात् दृष्टप्रदीपनक पलायनमार्गपङ्गवत् । क्रियामात्रं वा ज्ञानरहितं न तेभ्यो मा भैषीरिति दर्शयितुं समर्थम्, न हि क्रियामात्रात् पुरुषो भयेभ्यो मुच्यते सज्ज्ञानविकलत्वात् प्रदीपनक- 10 भयप्रपलायमानान्धवत् । उभयसद्भावस्तु तेभ्यो मा भैषीरिति दर्शयितुं समर्थः, तथाहि सम्यग्ज्ञानक्रियावान् भयेभ्यो मुच्यते, उभयसंयोगवत्त्वात्, प्रदीपनकभयान्धस्कन्धारूढपशुवत्, तस्मान्सम्यग्ज्ञानादित्रितयनयसमूहात् मुक्ति:, नयसमूहविषयश्च सम्यग्ज्ञानं श्रद्धानन तद्विषयं सम्यग्दर्शनं तत्पूर्वस्वाशेषपापक्रियानिवृत्तिलक्षणं चारित्रम्, प्रधानोपसर्जनभावेन मुख्यवृत्त्या वा तत्रितयप्रदर्शक वाक्यमागमो नान्यः, एकान्तप्रतिपादकस्यादर्थत्वेन 15 विसंवादकतया तस्य प्राधान्यानुपपत्तेः, जिनवचनस्य तु तद्विपर्ययेण दृष्टवददृष्टार्थेऽपि प्रामाण्यसङ्गतेः ॥ ६८ ॥
तस्य तथाभूतस्य स्तुतिप्रतिपादनाय मङ्गलार्थत्वात् प्रकरणपरिसमाप्तौ गाथासूत्रमाह - भद्दं मिच्छादंसणसमूहमइयस्स अमयसारस्स ! जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ ६९ ॥
भद्रं मिथ्यादर्शनसमूहमयस्यामृतसारस्य । जिनवचनस्य भगवतः संविग्नसुखाधिगम्यस्य ॥ छाया ॥
भद्रमिति, भगवतो जिनवचनस्य भद्रमस्तु कथंभूतस्य मिथ्यादर्शनसमूहमयस्य तथात्वेऽप्यमृतसारस्य, न च वाच्यं मिथ्यादर्शनसमूहमयं यत् तद्विषकणिकासमूहमयस्येव कथं सम्यग्रूपतामासादयतीति, परस्पर निरपेक्ष संग्रहादिनयरूपापन्नसांख्यादिमिध्यादर्शनानां 25
१. मतिश्रुतादिकं ज्ञानं चारित्रप्राप्तौ प्रधानं कारणम्, चरणविषयजीवा जीव देयोपादेयादेश्च वस्तुनो ज्ञानमन्तरेणापरिज्ञानात् अपरिज्ञातस्य च यथावत्कर्तुमशक्यत्वात् तपः संयमरूपाञ्चरणात्तु निर्वाणं भवति तस्मात्सर्वसंवररूपनिर्वाणस्य चरणमेव प्रधानं कारणं ज्ञानन्तु कारणकारणत्वाद्वौणं कारणम् अतएव ज्ञानस्य सारश्चरणमिति आप्तवचनमपि संगच्छते । यदि ज्ञानस्य मोक्षं प्रतिं परम्परया क्रियायाश्चानन्तर्येणोपकारित्वे गुणप्रधानभावः, अथ युगपद् द्वे अपि कार्योत्पत्तावुपकुरुतस्तदा द्वयोरपि प्राधान्यमित्याशयः ||
"Aho Shrutgyanam"
5
20

Page Navigation
1 ... 413 414 415 416 417 418 419 420