Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 413
________________ सोपानम् । स्त्रीमुक्तिसाधनम् । शितवाक्यं सर्वज्ञप्रणीततयाऽस्मान् प्रत्यसिद्धमिति वाच्यम् , नास्तिकादीन् प्रति पुरुषनिर्वाणावेदकस्यापि तत्प्रणीतत्वेनासिद्ध्या तान् प्रति तत्प्रणीतत्वसाधकतयोपन्यस्यमानाया युक्तेरत्रापि समानत्वात् , पूर्वापरैकवाक्यत्वदृष्टादृष्टाबाधितत्वादेरविशेषात् । ननु स्त्रीणां घातिकर्मक्षयनिमित्तमाघशुक्लध्यानद्वयं न सम्भवतीति न निर्वाणप्राप्तिसम्भवः, 'आद्ये पूर्व विद' इति वचनात् पूर्वधरस्यैव तयोः सद्भावात् , न च पूर्वधरत्वं तासाम , तदनधिकारित्वादिति चेन्न, 5 तथा सति प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि तन्न भवेत्तदध्ययना. सम्भवादाघशुक्लध्यानद्वयासम्भवतस्तन्निमित्तघातिकर्मक्षयसमुद्भूताशेषतत्वावबोधस्वभावकेवलज्ञानाभावे न मुक्तिसङ्गतिः स्यादित्यनिष्टापत्तिः। अथ शास्त्रयोगागम्यसामर्थ्य योगावसेयभावेष्वतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशमवीर्यविशेषप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावादाद्यशुक्लध्यानद्वयप्राप्तेः कैवल्यावाप्तिक्रमेण मुक्त्यवाप्तिरिति न दोषः, तद- 10 ध्ययनमन्तरेणापि विशिष्टक्षयोपशमसमुद्भूतज्ञानात् पूर्ववित्वसम्भवादिति चेत्तर्हि निर्ग्रन्थी. नामप्येवं द्वितयसम्भवे न कश्चिद्दोषः, अन्यथा मरुदेवीस्वामिनीप्रभृतीनां जन्मान्तरेऽप्यनधीतपूर्वाणां न मुक्तिप्राप्तिर्भवेन्न चासौ तेषामसिद्धा, सिद्धप्राभृतादिग्रन्थेषु गृहिलिङ्गसिद्धानां प्रतिपादनात्, न च ते अप्रमाणम् , सर्वज्ञप्रणीतत्वेन तेषां प्रामाण्यात् । न च मायागारवादिभूयस्त्वादबलानां न मुक्तिप्राप्तिः, तदा तासां तद्भूयस्त्वासम्भवात् , प्राक् तु 13 पुरुषाणामपि तत्सम्भवोऽविरुद्धः । न चाल्पसत्त्वाः क्रूराध्यवसायाश्च ता इति वाच्यम् , सत्त्वस्य कार्यगम्यत्वात्तस्य च तासु दर्शनादल्पसत्त्वासिद्धेः, दृश्यन्ते ह्यसदभियोगादौ तृणवत्ताः प्राणपरित्यागं कुर्वाणाः, परीषहोपसर्गाभिभवं चाङ्गीकृतमहाव्रता विदधानाः । क्रूराध्यवसायत्वं दृढप्रहारिप्रभृतीनां प्रागवस्थायां तद्भवे विद्यमानमपि न मुक्तिप्राप्तिप्रतिबन्धकम् , तदवस्थायां तु तास्वप्यभाव एव । धर्मे पुरुषस्योत्तमत्वात्तासां चानुत्तमत्वान 20 मुक्तिप्राप्तिरिति चेन्न, अन्यगुणापेक्षयाऽनुत्तमत्वस्य मुक्तिप्राप्त्यप्रतिबन्धकत्वात्, अन्यथा तीर्थकद्गुणापेक्षया गणधरादेरप्यनुत्तमत्वान्मुक्तिप्राप्त्यभावो भवेत् , तस्मान युक्त्यागमाभ्यां तासां मुक्त्यभावः प्रतिपत्तुं शक्यः ॥ यत्तु भगवत्प्रतिमाया आभरणादिभिर्भूषा न विधेयेति दिगम्बरैरुच्यते तदप्यहत्प्रणीतागमापरिज्ञानस्य विजम्भितमुपलक्ष्यते तत्करणस्य शुभभावनिमित्ततया कर्मक्षयावन्ध्यकारणत्वात् , भगवत्प्रतिमाया भूषणाधारोपणं हि 25 कर्मक्षयकारणम् , कर्तुमनःप्रसादजनकत्वात् , कुङ्कुमाधालेपनवत् , न च व्रतावस्थायां भगपता भूषणादेरनजीकृतत्वान्न तत्प्रतिकृतौ तद्विधेयम् , संमजनाङ्गरागपुष्पादिधारणस्यापि सदवस्थायां भगवताऽनाश्रितत्वान्न तत्तत्र विधेयं स्यात् । अथ मेरुमस्तकादिषु तदभिषेकादा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420