Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
मुक्तिसाधनम् ।
: ६५५ :
न च भगवता तासां नैर्ग्रन्थ्यं नाभिहितमिति शङ्कयम्, ' णो कप्पइ निग्गन्थस्स णिगंथीए बा अभिन्नतालपलंबे पडिगाहित्तए ' [ कप्पसू० उ० १ सू० १] इत्याद्यागमेन बहुशः प्रतिपादनात्, अयोग्यायाश्च प्रब्रज्याप्रतिपत्तिप्रतिषेधस्य 'अट्ठारसपुरिसेसुं वीसं इत्थीसु' इत्याद्यागमेन विधानाच्च । विशेषप्रतिषेधस्य शेषाभ्यनुज्ञापरत्याश्च न तासां भगवदुक्तनैर्ग्रन्ध्यनिमित्ता. विकलचारित्रप्राप्त्यनुपपत्तिः । तथाभूतचारित्रवत्वेऽपि तासां न तत्प्राप्तिरित्यभिधानन्त्वनु- 5 मानबाधितमेव, अविकलकारणस्यावश्यमुत्पत्तेरन्त्यावस्थाप्राप्त बीजा दिसामग्रीकाङ्कुरादिवत् । स्त्रीवेदपरिक्षयाभावोऽपि न तत्प्राप्ति प्रतिरोधकोऽन्यथा पुंवेदपरिक्षयाभावस्यापि प्रतिरोधकत्वापत्त्या पुरुषस्यापि तदप्राप्तिप्रसङ्गात् । न च पुरुषस्य तत्परिक्षये शैलेभ्यवस्थाभावि चारित्रप्राप्तितो मुक्तिप्राप्तिर्न तु प्रागिति वाच्यम्, स्त्रियोऽप्येवं मुक्तिप्राप्तौ विरोधाभावात्, स्त्रीवेदपरिक्षयसामर्थ्यानुपपत्तिर्वाधिक इति चेत्तथाविधसामर्थ्याभावस्य तस्या असिद्धेः, तथाविधसामर्थ्या- 10 भावबोधकस्यागमस्य द्वादशाङ्गयामनुपलब्धेः । न च तत्परिक्षयसामर्थ्यप्रतिपादकस्याप्यनुपलब्धिरिति वाच्यम्, 'सव्वत्थो वा तित्थपरिसिद्धा तित्थयरितित्थे अतित्थयरिसिद्धा असंखेजगुणा' इत्यादिसिद्धप्राभृतागमस्यानेकस्य स्त्रीणां स्त्रीवेदपरिक्षयसामर्थ्यप्रतिपादकस्योपलम्भान्न हि सर्वकर्मानीकनायकरूप मोहनीय कर्माङ्गभूतस्त्रीवेदपरिक्षयमन्तरेण तासां मुक्तिप्राप्तिरिति मुक्तिसद्भावाऽऽवेदकमेव वचस्तासां सामर्थ्यावेदकं सिद्धमतो न 15 स्त्रीत्वं तत्परिक्षयसामर्थ्येन विरुद्धम्, सहानवस्थानलक्षणविरोधस्यासिद्धेरन्योन्यव्यवच्छेदरूपताया अनयोरनयगततया परस्परपरिहारस्थितिलक्षणविरोधस्याप्यसिद्धेः । किन स्त्रीत्वादिति हेतुनोदित स्त्री वेदत्वादिति विवक्षणेऽसिद्धता, मुक्तिप्राप्तिप्राक्तन समयादिषु स्त्रीवेदोदयस्य तासांमभावादनिवृत्तिगुणस्थान एव तस्य परिक्षयात्, परिक्षीणस्त्रीवेदत्वादिति चित्रक्षणे च विरुद्धता, हेतोर्विपर्ययव्याप्तत्वात् रुयाकारयोगित्वादिति विवक्षणे त्वनैकान्तिकता, 20 विपर्यये बाधकप्रमाणाभावेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् । चतुर्दशपूर्वसंवित्सम्बन्धित्वाभावोऽपि तासां कुतः सिद्धो येन साध्यविकलो दृष्टान्तो न स्यात्, सर्वज्ञप्रणीतागमनादिति चेत एव मुक्तिभावस्यापि सिद्धिरस्तु न ह्येकवाक्यतया व्यवस्थितो दृष्टेष्टादिषु बाधामननुभवन्नाप्तागमः कचित् प्रमाणं कचिन्नेत्यभ्युपगन्तुं प्रेक्षापूर्वकारिणा शक्यः । अथ विवादगोचरापन्नाबला अशेषकर्मक्षयनिबन्धनाध्यवसायविकला, अविद्यमानाधः सप्तमनरकप्रात्य - 25
१. सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टाध्यवसायेन भवति, तत्र सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानमपि सिद्धम्, प्रथमा सप्तमनरकपृथ्वी, परमदुःखस्यातोऽन्यत्राभावात् द्वितीयं निःश्रेयसम्, आगने च स्त्रीणामाद्यस्थानगमनं निषिद्धम् तत्र कारणं तद्योग्यतथाविधोत्कृष्टतम मनोवीर्यपरिणत्यभावः, अत एव संमूर्छिमादिवत्
" Aho Shrutgyanam"

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420