Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितस्वसोपाने
[ चत्वारिंशम् वृष्वतरमांसायाहारग्रहणस्यापि प्रसक्तेः, क्षुद्वेदनाप्रशमनिमित्तत्रिकोटीपरिशुद्धाहारग्रहणवत् । तथाभूताहारग्रहणे सुतरां क्लिष्टाध्यवसायोत्पत्तिप्राबल्यान्न तद्गृह्यत इति चेत्समान रूयादिग्रहणेऽपि । न च वस्त्राद्यभावे संक्लेशपरिणामप्रादुर्भावः कातराणामेव न तु दिग्बाससां स्वशरीरमपि काष्ठवन्मन्यमानानामिति वाच्यम्, आर्तध्यानोपगातानामनन्तसत्त्वोपमर्दविधा5 ग्यनलारम्भादिप्रतिषिद्धाचरणवत्तया तेषामुपलम्भेनानुभवविरोधात्, तदनाचरणवतस्त्वास्महिंसकत्वेनाधिरत्याश्रयणादयतित्वस्य न्यायतः प्रसक्तेः । शीतादिदुःखमसहमानो न संसारबाधान्तमुपयातुं क्षम इति चेत्तुल्यं क्षुद्वेदनादुःखासहनेऽपि, न चाहारग्रहणं मुक्तिमार्गाविरोधीति वाच्यम् , अत एव वस्त्रादिग्रहणेऽप्यदोषात् । न च वनादेमलादिदिग्धस्य
सम्मूर्छनानेकसत्त्वहेतुतया तहणे तव्यापत्तेरवश्यंभावित्वान्मुक्तिमार्गाविरोधित्वं तस्यासिद्ध10 मिति वाच्यम् , आहारग्रहणेऽपि सम्मूर्च्छनाद्यनेकजन्तुसम्पातहेतुत्वस्य तत्परिभोगनिमित्त.
तद्विनाशस्य च समानत्वात । अथ विधानेन तत्परिभोगादिकं विदधतो न सत्त्वव्यापत्तिापत्तौ वा शुद्धाशयस्य तद्रक्षादौ यत्नवतो गीतार्थस्य ज्ञानादि पुष्टालम्बनप्रवृत्तेरहिंसकत्वान्न तहणं मुक्तिमार्गविरोधीति चेत्तर्हि वस्त्रादिग्रहणमप्येवं क्रियमाणं कथं मुक्तिमार्गविरोधि
भवेत् , तथा चागमोक्तविधिना वस्त्रादिग्रहणस्य हिंसाद्यपायरक्षणनिमित्ततया मुक्तिमार्ग. 15 सम्यग्ज्ञानाद्युपबृंहकत्वात्तत्परित्यागस्य त्वर्वाकालीनयत्यपेक्षया नाधकत्वाद्विशेष्यसद्भावे
सम्यग्ज्ञानाद्यन्वितत्वे सतीति विशेषणमसिद्धम् , सति चास्मिन् विशेष्यमसिद्धमतो न रागाद्यपचयनिमित्तता परव्यावर्णितस्वरूपस्य नैर्ग्रन्थ्यस्य सिद्धा । अत एव व्यावर्णितस्वरूपनैर्गन्ध्यविपक्ष भूतत्वेऽपि वस्त्रादिग्रहणस्य न रागाद्युपचयं प्रति गमकत्वम् , तद्विरुद्धेन
सम्यग्दर्शनायुपचयेन यथोक्तवस्त्रादिग्रहस्य व्याप्तत्वेन तद्विरुद्धसाधकत्वात् । दृष्टान्तस्यापि 20 परव्यावर्णितनैन्थ्यविपक्षभूतत्वासिद्धेः साधनविकलता । न च यथोक्ताङ्गनासङ्गादिरप्युप
सर्गसहिष्णोर्वैराग्यभाववशीकृतचेतसो योगिनो रागाद्यपचयहेतुः, भरतेश्वरप्रभृतिषु तस्य तत्प्रक्षयहेतुत्वेन 'जे जत्तिआ इ हेऊ भवस्स' इत्यादि शास्त्रे श्रवणात् । रागाद्यपचयनिमित्तनग्रंथ्य विपक्षभूतत्वश्च वस्त्रायुपादानस्यासिद्धम् , धर्मोपकरणत्वेन तस्य ग्रन्थत्वानुपपत्तेः, तथा
च प्रयोगः, अर्हन्मार्गोक्तक्रियाव्यवस्थितानां सम्यग्दर्शनादिसम्पयुक्तानां यतीनां वस्त्रादिकं न 25 ग्रन्थः, धर्मोपकरणत्वात् , प्रमार्जनादिनिमित्तोपादीयमानपिन्छिकादिवत् , यत्तु कर्मबन्धहेतु
तया ग्रन्थत्वेन प्रसिद्धं तद्धर्मोपकरणमपि न भवति यथालुब्धकादेमंगादिबन्धनिमित्तं वागुरादिकम् । न च धर्मोपकरणत्वं वस्त्रादेरसिद्धम , वस्खाद्यन्तरेण यतीनामुक्तलक्षणानामहत्यणीताब्रह्मपरित्यागादिलक्षणस्य व्रतसमूहस्य सर्वथा संरक्षणहेतुत्वानुपपत्तेः, यच्च व्रतसंरक्षणहेतुस्तद्धर्मोपकरणत्वेन परस्यापि सिद्धम् , यथा पिछिकादि, वैधhण वागुरादि । न च
"Aho Shrutgyanam"

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420