Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 401
________________ सोपानम् ] वचनविचारः । नाप्यनिष्पन्नश्य, अविद्यमानत्वेन तदसम्भवात्, अन्यथाऽतिप्रसङ्गात् । न च सामान्यरूपेण सन्नपि विशेषाकारसंपादनाय पुरुषं प्रवर्त्तयतीति वक्तव्यम्, विद्यमानस्य वर्त्तमानत्वेन सामान्याकारेण भावस्य लिडर्थत्वानुपपत्तेः साध्यत्वासम्भवात् विशेषाकारतायाः साध्यत्वेऽपि तद्रूपेण तस्य प्रेरकत्वानुपपत्तेः । फलापेक्षभावस्य स्वात्मसम्पादनाय प्रेरकत्वे फलस्यैव प्रेरकत्वं स्यात्, इष्टापत्तौ विद्यमानाविद्यमान विकल्पाभ्यामुक्तदोषो दुर्वारः स्यात्, विद्यमानस्य प्रवर्त्तकत्वासम्भवात् न हि यद्यस्यास्ति स तदर्थमेव लोके प्रवर्त्तते । न च फलस्यात्मसम्बन्धितासम्पादनाय प्रवृत्तिः, तस्यापि विद्यमानत्वेन प्रवृत्तिविषयत्वासम्भवात् । अविद्यमानन्तु फलं न प्रवर्तकम्, अविद्यमानस्य कारणत्वानुपपत्तेः । न च कार्यतया तत्तत्र प्रवर्त्तयतीति वाच्यम्., तस्य भावरूपतायां विद्यमानतया प्रवर्त्तकत्वात्, विद्यमानस्य कार्यताविरोधात् । अभावरूपत्वेऽपि न प्रेरकत्वम्, तस्यापि स्वरूपतः सत्त्वात् परस्परविवि- 10 क्तभावाभावोभयरूपत/स्वीकारेऽपि उभयदोषानुषङ्गः, अन्योऽन्यानुषक्तोभयरूपतास्वीकारे तु परपक्षप्रवेशप्रसङ्गः फलानुभवपर्यायाऽव्यतिरिक्तस्य कारणपर्यायात्मकस्यात्मनः फलात्मतथा परिणामात् कारणफलपर्याययोः कथञ्चिदभेदादेकस्यैवात्मद्रव्यस्य तत्तद्रूपतया विवृत्तेः फलस्य भावाभावरूपतया प्रवर्त्तकत्वात्, अन्यथा सर्वव्यवहारोच्छेदप्रसक्तेः । परे तु प्रेषणाऽध्येषणादिभिन्नो विधिरेव प्रवर्त्तकैकस्वभावो लिङाद्युपदिश्यमानः कर्मणि पुरुषं नियोजयति, सत्कारपूर्वको नियोगोऽध्येपणा, न्यक्कारपूर्वको नियोगः प्रेषणा, अनयोर्न प्रवर्त्तकत्वम्, व्यभिचारादिति वदन्ति तदपि प्रत्युक्तमेव, अविद्यमानस्य विधेः प्रेरकत्वासम्भवात्, विद्यमानस्य च वर्त्तमानत्वेन लिङ्प्रत्ययगभ्यता न स्यात्, विधेर्वर्त्तमानत्वे तत्र प्रत्यक्षादेरयवताराचोदनैव धर्मे प्रमाणम्, प्रमाणमेव चोदनेति न वक्तव्यं स्यात्, तत्र प्रत्यक्षादेः प्रवृत्तौ अवधारणद्वयस्याप्यनुपपत्तेः । न वा सामान्याभिधायि पदं विशेषाभिधायि युक्तम्, 20 सामान्यलक्षणेन ह्यर्थेन शब्दस्योत्पत्तिकः सम्बन्धो न विशेषेण, ततो न पदं विशेषविज्ञानजननक्षममसम्बन्धात्, अतो नानवगतो विधिः प्रवर्त्तकः किन विधेरपि निष्पाद्यतया तन्निपत्तये पुरुषस्य प्रवर्त्तको यद्यन्यो विधिरपेक्ष्यते तर्ह्यनवस्था, यदि च तत्रेच्छातः प्रवृत्तिस्तर्हि सर्वत्र तथैव प्रवृत्तिसम्भवेऽप्रमाणकविधिकल्पना व्यर्था । अथ विध्यर्थो न निष्पाद्यः किन्तु नित्य इत्युच्यते तर्हि नित्यस्य वर्त्तमानकालत्वेन त्रिकालशून्यार्थविषयत्वाभावात् 25 लिङ्प्रत्ययवाच्यता तस्य न भवेत्, लिङखिकालशून्यार्थविषयत्वात्, विध्यर्थस्य वर्त्तमानकालत्वे च तत्र प्रत्यक्षादेरपि प्रवृश्याऽवगतार्थानुवादकतया प्रेरणायाः प्रामाण्यं न स्यात, विध्यर्थस्य नित्यत्वे च धर्मरूपता न स्यात्, कार्यरूपस्यार्थस्य धर्मरूपताभ्युपगमात्, चोदनैकगम्यस्य तु विध्यर्थम्य लिङा सम्बन्धानवगमान्न ततस्तत्प्रतिपत्तिर्भवेत् । सम्बन्धान "Aho Shrutgyanam" : ३४९ : 5 1i

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420