Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 399
________________ घोपामम् ] वचनविचारः। : ३४७ : स्यान्यतः कुतश्चित् प्राक् संवादित्वनिबन्धनस्य प्रामाण्यस्य निश्चयः, अभ्यासावस्थायान्तु आप्तप्रणीतत्व निश्चयात् प्रवृत्तिरदृष्टार्थवाक्यान्न वार्यत इति कुत इतरेतराश्रयावकाशः ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितत्त्वसोपाने आदिध्यान वर्णनं नाम अष्टत्रिंशं सोपानम् ॥ अथ वचनविचारः। एकान्तवादिवचनानां सामान्यं विशेषः उभयमनुभयं वा वाच्यं न सम्भवति यतो विसंवादिनो दृष्टार्थेऽपि सर्वथाप्रवृत्तिरेव, निश्चितविसंवादाङ्गुल्यग्रहस्तियूथशतप्रतिपादक- 10 वाक्यादिवत् किं पुनररष्टार्थे । सामान्यस्य ह्येकान्तवादिवचनवाच्यत्वे घटाद्यानयनाय प्रेरितः सर्वत्र प्रवर्तेत, सामान्यस्येतरव्यावृत्तप्रतिनियतैकवस्तुरूपत्वायोगात् , न वा क्वचित् प्रवर्तेत, प्रवृत्तेर्विशेषनिबन्धनत्वात् , सामान्यस्यानर्थ क्रियाकारितया च प्रवृत्तिनिवन्धनस्वायोगात् । न च यदाऽश्रुतपूर्व वाक्यं प्रतिपत्ता शृणोति तदा सङ्केतकालानुभूतानां पदानां सामान्यमेवार्थ प्रतिपद्यते, वाक्यार्थप्रतिपत्तिस्त्वपेक्षासन्निधानाभ्यां विशेषणविशेष्यभावात् पदार्थप्रति- 15 पत्तिनिबन्धना, न पुनस्ततो वाक्यात्तथाविधस्य, तस्य स्वार्थेन सह सम्बन्धाप्रतिपत्तेः। वाक्यमेव च प्रवृत्तिनिवृत्तिव्यवहारक्षमम् , न पदम् , अनर्थक्रियाकारिसामान्यप्रतिपादकत्वादिति वाच्यम् , एवं कल्पनायां पदार्थानामपि वाक्यार्थप्रतिपत्तिहेतुत्वासम्भवात् , यथा हि घटः पटः कुम्भ इत्यादिपदेभ्योऽन्योन्याननुषतस्वतंत्रसामान्यात्मकार्थप्रतिपत्तिस्तथा सम्बद्धपदसमूहश्रवणादपि तथाविधसामान्यप्रतिपत्तिः कुतो न भवेत्, न हि ततः सामान्यमात्रा- 20 धिगमे सत्परित्यागेन विशिष्टार्थप्रतिपत्तौ निमित्तमस्ति, पदार्थस्य पदार्थान्तरं प्रत्युत्पत्ती प्रतिपत्तौ वा अपेक्षादेरयोगान पदार्थानां प्रतिपत्तावपेक्षासन्निधानादिकं निमित्तम् , पदार्थस्य सामान्यात्मकत्वेनोत्पत्तेरसम्भवात् , स्वपदेभ्य एव पदार्थप्रतिपत्त्या तत्प्रतिपत्तावपि पदार्थान्तरापेक्षाद्यनुपपत्तेश्च । न वा सामान्यपरित्यागे किश्चिन्निबन्धनमस्ति बाधकाभावात् सत्यर्थित्वे उभयप्रतिपत्तिप्रवृत्ती स्याताम् । न च वाक्यार्थप्रत्यय एव बाधकः, तेन तस्य 25 विरोधाभावात् , सामान्यविशेषयोः साहचर्यात् , सामान्य प्रत्ययस्य च विशेषप्रतिपत्ति प्रति निमित्तत्वाभ्युपगमात् निमित्तस्य च निमित्तिनाऽबाध्यत्वात् , अन्यथा तस्य तन्निमित्तत्वायोगात् । न च यत्र पदार्थानामेकद्रव्यसम्भवस्तत्र पदार्थसामान्यपरित्यागाद्विशेषः प्रतिपत्तव्या, यथा नीलोत्पलादाविति वाच्यम् , तथा सति हि सकलवाक्यान्यस्य व्यु "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420