Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
[ एकोनचत्वारिंशम्
3
त्पादितान्येव भवन्ति, तथाहि यः कश्चित्सम्भदेकद्रव्यार्थनिवेश: पदसमूहः स सङ्केतसमयावगतसामान्यात्मकावयवार्थपरित्यागतः तेषामेव विशेष्यविशेषणभावेन विशिष्टार्थगोचरः प्रतिपत्तव्यः, यथा नीलोत्पलं पश्येत्यादि पदसङ्घातः, तथा चायमपूर्ववाक्यात्मकः पदसमुदाय इति सङ्केतमनुसृत्य यदा ततस्तथाभूतमर्थं प्रत्येति तदा कथं न विशि 5 ष्टार्थवाचकं वाक्यम्, अनेनैव च क्रमेण शब्दविदां समयव्यवहार: उपलभ्यते, यथा धात्वादिः क्रियादिवचनः कर्त्रादिवचनश्च लडादिरिति समयपूर्वकं प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूत इति व्युत्पादितोऽनर्थक्रियाकारित्वेन सामान्यमात्रस्य विशेषनिरपेक्षस्य प्रतिपादयितुमनिष्ठेस्तत्परित्यागेन व्यवहारकाले विशेषमवगच्छति व्यवहारी, तस्मात् केवलस्य पदस्य प्रयोगानर्हत्वात् प्रयोगार्हस्य च वाक्यस्य सामान्यानभिधायकत्वात् कथं सामान्यं 10 शब्दार्थः स्यात् । केचित्तु पूर्वपदानुरञ्जितं पदमेव वाक्यम्, पदार्थान्तरविशेषितः पदार्थ एव च वाक्यार्थः यथाहि दण्डी छत्रीत्यादिव्यपदेशं पुरुष एव समासादयति नान्यस्तद्वयतिरिक्तः तथा अपाक्षीत् पचति पक्ष्यतीत्यादिपदैरतीतकालाद्यवच्छिन्नः क्रियाविशिष्टश्व देवदत्त एव प्रतीयते देवदत्तशब्देन तेषां सामानाधिकरण्यात्, न तु तद्व्यतिरिक्तोऽर्थः । अग्निहोत्रं जुहुयात्, प्रामं गच्छ, स्वाध्यायः कर्त्तव्य इति लिङ्लोट्कृत्यप्रयोगेष्वपि कर्मणि नियुक्तः 15 क्रियाविशिष्टोऽभ्येषणादिविशिष्टश्च देवदत्त एव प्रतीयते, केवलं वर्त्तमानादिकालो नात्र विशेषणत्वेनावतिष्ठते । नन्वत्र यद्यतिरेकावगतिर्न भवेत्तर्हि कथं पुरुषो भावसाधने प्रवर्त्तेत, यथाहि देवदत्तः पचतीत्यादिवाक्यान्न प्रवर्त्तते तथा जुहुयादित्यस्मादपि न प्रवर्त्तेत, प्रवृत्तिनिमित्तस्यानवबोधादिति चेन्न, जुहुयादित्यादिवाक्यजनितविज्ञानस्यैव प्रवर्त्तकत्वात्, प्रवृत्तेस्तद्भावभावित्वेनोपलम्भात्, एतद्वाक्यजन्यं हि विज्ञानं स्वर्गादिसाधने पुरुषं नियोजय20 दुपलभ्यते, न तु पचतीत्यादिवाक्यजनितमिति वदन्ति तन्न सम्यक्, एकान्तपक्षे विशेषणविशेष्ययोरत्यन्तं भेदेऽभेदे वा विशेषणानुरागस्य पदे पदार्थे वाऽसम्भवाद्वाक्यार्थकल्पनादेरनुपपत्तेः, भेदे सम्बन्धासिद्धेः, अभेदे एकस्य वास्तविक विशेषणविशेष्यरूपत्वासङ्गतेः, अतो नापाक्षीद्देवदत्त इत्यादौ कालक्रियाविशिष्टदेवदत्तादिप्रतिपत्तिः । तद्भावभावित्वस्यान्यथासिद्धत्वाच्च न लिखादियुक्तवाक्यजनितविज्ञानस्य प्रवर्त्तकत्वम् । यत्तु लिङादिभिः साध्यतया भाय 25 एवाभिधीयते न तु कर्त्ता, पूर्वापरीभूतं भावमाख्यातमाचष्ट इति वचनात् भाव एव च कालत्रयशून्यः साध्यतया प्रतीयमानो विधिरुच्यते स चात्मलाभाय पुरुषं प्रवर्त्तयन् लिङ इति मतं तदपि न युक्तम्, फलसापेक्षत्वनिरपेक्षत्वविकल्पाभ्यां भावस्य साध्यत्वानुपपत्तेः । तत्र न तावत्फलनिरपेक्ष भावः पुरुषं प्रेरयितुं समर्थः, फलविकले कर्मणि प्रेक्षापूर्व कारिणां प्रवृत्त्यसम्भवात् । किञ्च न निष्पन्नस्य तस्य प्रेरकत्वम्, तत्सद्भावस्य पूर्वमेव सिद्धत्वात्
३४८ :
सम्मतितत्त्वसोपाने
"Aho Shrutgyanam"

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420