Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
श्रीपानम्
प्रदर्शनम् |
लसामान्यवत्, एकस्य प्रतिसम्बन्धिस्वभावविशेषाभ्युपगमे विशेषाणां तत्स्वलक्षणं सामान्यलक्षणमेव स्यात् । न च विशेषैरन्यदेशावस्थितैरसंयुक्तस्यैकत्र तस्य वृत्तिः अव्यवधानाविशेषात्, एवञ्च स्वभावविशेषाणां सामान्यरूपाः सर्व एव भावा विशेषरूपाश्र्व । तत्र देशकालावस्थाविशेषनियतानां सर्वेषामपि सत्त्वं सामान्यमे करूपमव्यवधानात् तस्य च ते विशेषा एवानेकं रूपम्, यतस्तदेव सत्रं परिणामविशेषापेक्षया गोत्वब्राह्मणत्वादिलक्षणा 5 जातिः परिणामविशेषाश्च तदात्मका व्यक्तय इति परस्परव्यावृत्ताने कपरिणामयोगादेकस्यैकानेक परिणतिरूपता संशयज्ञानस्येवाविरुद्धा, व्यक्तिव्यतिरिक्तस्य सामान्यस्य उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशशृङ्गवदसत्त्वात् सन् घट इत्यादिप्रत्ययः सामान्यविशेषात्मकवस्त्वभावेऽबाधितरूपो न स्यात् । न च चक्षुरादिबुद्धौ वर्णाकृत्यक्षराकारशून्यं सामान्यं परव्यावर्णितस्वरूपमव भासते, प्रतिभासभेदप्रसङ्गात्, तस्य सर्वगतत्वे चान्तराले - 10 प्युपलंभप्रसङ्गः, आश्रयस्याभिव्यंजकस्याभावाभ्युपगमेऽभिव्यक्तादनभिव्यक्तस्वरूपस्य भेदप्रसङ्गात् सामान्यरूपताक्षतिः, नित्यैकस्वभावस्य चाश्रयभावाभावावभिव्यक्त्यनभिव्यक्ती सत्प्रत्ययकर्तृत्वाकर्तृत्वे न च युज्येते, एकस्य तद्योगे चानेकान्तसिद्धिरेव । स्वाश्रय सर्वगतत्वेऽपि एकेनाश्रयेणैकदा प्रकाशितायाः सत्तायात्सर्वदा सर्वत्र प्रकाशितत्वात् सकलवस्तु प्रपञ्चस्य सकृदुपलब्धिप्रसङ्गः, न वा कस्यचिदप्युपलब्धिः स्यादविशेषात् प्रकारान्तरेण प्रतीत्यभ्यु- 15 पगमेऽनेकान्तवाद एव । स्वतः सतां विशेषाणां सत्तासम्बन्धानर्थक्यमसताश्च तत्सम्बन्धानुपपत्तिरतिप्रसङ्गात् । निष्क्रियसामान्यसम्बन्धाद्व्यक्तीनामक्रियत्वं सामान्यस्य वा क्रियावस्वाद व्यापकत्वं स्यात् । व्यक्त्यव्यतिरेके व्यक्तिस्वलक्षणवन्न तस्य सामान्यरूपता भवेत् व्यक्तीनां वा सामान्याव्यतिरेकाद्व्यक्तिस्वरूपहानेः सामान्यस्य तद्रूपता न भवेत् । न च व्यतिरेकाव्यतिरेक पक्षे ऽप्यनवस्थोभयपक्ष दोषवैयधिकरण्यसंशयविरोधादिदोषप्रसङ्गात् सर्वथा 20 तदभावः, अनवस्थादिदोषस्य प्राक्प्रतिषिद्धत्वात् प्रतीयमानेऽपि तथाभूते वस्तुनि विरोधादिदोषासञ्जने प्रकारान्तरेण प्रतिभासासम्भवात् सर्वशून्यताप्रसङ्गः । न च सैवास्त्विति वक्तव्यम्, स्वसंवेदनमात्रस्याप्यभावप्रसङ्गतो निष्प्रभाणिकायास्तस्या अध्यभ्युपगन्तुमशक्यस्वात्, तथापि तस्या अभ्युपगमे वरमनेकान्तात्मकं वस्त्वभ्युपगन्तुं युक्तम्, तस्याबाधित प्रती - तिगोचरत्वात् । तेन रूपादिक्षणिकविज्ञानमात्रशून्यताभ्युपगमः, पृथिव्याद्येकान्तनित्यत्वा- 25 भ्युपगमः, आत्माद्वैताङ्गीकरणम्, परलोकाभावनिरूपणम्, द्रव्यगुणादेस्त्यन्तभेदप्रतिज्ञानम् हिंसा धर्माभ्युपगमः, दीक्षातो मुक्तिप्रतिपादनमित्याद्ये कान्तवादिप्रसिद्धं सर्वमसत् प्रतिपतव्यम्, तत्प्रतिपादक हेतूनां प्रदर्शितरीत्याऽनेकान्तव्याप्तत्वेन विरोधात्, इतरधर्म सव्यपेक्ष
૪૨
"Aho Shrutgyanam"
१७

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420