Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 388
________________ सम्मतितस्वसोपाने [ सप्तर्विधम् न क्रमेण कार्यनिर्वतकः । नापि यौगपधेन, कालान्तरेऽकिश्चित्करतया तस्यावस्तुस्वापत्तेः क्षणमात्रावस्थायिताप्रसक्तेश्च । तस्मादन्यप्रकाराभावेन व्यापिकाऽर्थक्रिया ततो निवर्तमाना स्वव्याप्यां सत्तामादाय निवर्तत इति यत्सत्तत्सर्वमनेकान्तात्मक सिद्धम् , अन्यथा प्रत्यक्षादि विरोधप्रसङ्गः, न हि भेदमन्तरेण कदाचित् कस्यचिदभेदोपलब्धिः 5 हर्षविषादाद्यनेकाकारविवर्तात्मकस्थान्तश्चैतन्यस्य स्वसंवेदनाध्यक्षतः वर्णसंस्थानसदायनेकाकारस्य स्थूलस्य पूर्वापरस्वभावपरित्यागोपादानात्मकस्य घटादेवहिरेकस्येन्द्रियजाध्यक्षतः संवेदनात्, सुखादिभेदविकलतया चैतन्यघटादेः कदाचिदप्युपलम्भागोचरत्वात् , महासामान्यस्यावान्तरसामान्यस्य वा सर्वगतासर्वगतधर्मात्मकस्य व्यक्त्यतिरिक्तस्वभावतया कदाचित्कचिदनुपलब्धेर्द्रव्यगुणकर्मणां कथं तद्विशिष्टतया प्रतिपत्तिर्भवेत् । समवायस्य चान10 वस्थादोषतः सम्बन्धान्तराभावात् द्रव्यगुणकर्मसामान्य विशेषाणामन्योन्यं तादात्म्यानिष्टौ तेष्ववृत्तः सर्वपदार्थस्वरूपाप्रसिद्धिः स्यात् । स्वत एव द्रव्यादिषु वृत्तौ समवायमन्तरे. णापि द्रव्यादयोऽपि स्वाधारेषु वृत्ति स्वत एवात्मसात्करिष्यन्तीति समवायकल्पनावैयर्थ्य. प्रसक्तिः । अवयविनोऽपि स्वारम्भकावयवेषु तादात्म्यानभ्युपगमे सामान्यस्येव तद्वत्सु वृत्ति विकल्पादनवस्थादिदोषप्रसङ्गान्न वृत्तिर्भवेत् , वृत्तौ वा साकल्येन प्रत्याधार ग्रहणासम्भ15 वात व्यक्तिवद्भेदप्रसक्तिः खण्डशः प्रतिपत्तरगृहीतस्वभावाद्गहीतस्वभावस्य भेदात् , तथा च सामान्यादिरूपताहानिप्रसक्तिः ! किश्च सर्वस्वाधारव्यापिन: सामान्यस्य द्रव्यस्य वा तद्वतां सामस्त्येन ग्रहणासंभवात् कथं तदग्रहे तगृहणं भवेस , आधाराप्रतिपत्तौ तदाधेयस्य तत्वे. . नाप्रतिपत्तेः, सामान्यायशेषु गृहीतेष्वपि सामान्यादेर्वृत्तिविकल्पादेर्दोषस्तेष्वपि पूर्ववत्स मानः, तदंशग्रहणेऽपि च सामान्यस्य व्यापिनः कदाचिदप्यप्रतिपत्तेः सद्व्यमित्यादिप्रति20 पत्तिः तद्वत्सु न कदाचिद्भवेत् , तदंशानां सामान्यादेरत्यंतभेदात् , अत एव द्रव्यादिषट्पदार्थव्यवस्थाप्यनुपपन्ना भवेत् , प्रतिभासगोचरचारिणां सामान्यायंशानां पदार्थान्तरताप्र. सक्तेः । अथ निरंशं सामान्यमभ्युपगम्यते तर्हि सकलस्वाश्रयप्रतिपत्त्यभावतो मनागपि न सामान्यप्रतिपत्तिरिति सद्रव्यं पृथिवीत्यादिप्रतिपत्तेनितरामभावः स्यात् । तदंशानां सामान्याद्भेदाभेदकल्पनायां द्रव्यादय एव भेदाभेदात्मकाः किं नाभ्युपगम्यन्त इति 25 सामान्यादिप्रकल्पना दूरोत्सारितैवेति कुतस्तद्भेदैकान्तकल्पना, सतः सामान्यविशेषात्मकं सर्व वस्तु सत्त्वात्, न हि विशेषरहित सामान्यमानं सामान्यरहितं विशेषमात्रं वा सम्भवति, तादृशः कचिदपि वृत्तिविरोधात्, वृत्त्या हि सत्त्वं व्याप्तं स्वलक्षणात् सामान्यलक्षणाद्वा तादृशाद्वृत्तिनिवृत्त्या निवर्त्तत एव, यतः कचिद्वृत्तिमतोऽपि स्वलक्षणस्य न देशान्तरवर्तिनान्येन संयोगः तत्संसर्गाव्यवच्छिन्नस्वभावान्तरविरहात, विशेषविक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420