Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 392
________________ : ३४० : सम्मतितत्त्वसोपाने [ अष्टत्रिंशम् व्यो मन्तव्यो निदिध्यासितव्यः' इत्यादि, सत्ताद्रव्यत्वसम्बन्धात् सद्रव्यं वस्तु' इति, ' परलोकिनोऽभावात् परलोकाभाव: ' इति, ' चोदनालक्षणोऽर्थो धर्मः ' इति, धर्माधर्मक्षयङ्करी दीक्षा' इत्यादिकमधीत्य सूत्रधरा वयमिति शब्दमात्रेण गर्विता अविदितसूत्रव्यापारविषयास्ते, सूत्राभिप्रायव्यतिरिक्तविषयविप्रतिपत्तित्वादितरजनवदज्ञा इत्यभिप्रायः । अथवा 5 स्वयुध्या एवैकनयदर्शनेन कतिचित्सूत्राण्यधीत्य केचित् सूत्रधरा वयमिति गर्विता यथास्थि तान्यनयस व्यपेक्ष सूत्रार्थापरिज्ञानादविदितात्मविद्वत्स्वरूपा इति गाथाभिप्रायः ॥ ६१ ॥ अथैषामेकन यप्रदर्शनेन प्रवृत्तानां यो दोषस्तमाह 10 15 20 सम्मर्द्दसणमिणमो सयलसमत्तवयणिजणिद्दोसं । अत्तुकोसविणट्ठा सलाहमाणा विणासेंति ॥ ६२ ॥ सम्यग्दर्शनमेतत् सकलसमाप्तवचनीयनिर्दोषम् । आत्मोत्कर्षविना श्लाघमाना विनाशयति ॥ छाया || सम्यगिति परस्पर विषयापरित्यागप्रवृत्ताने कनयात्मकं स्यान्नित्य इत्यादिसकलधर्मपरिसमाप्तवचनीयतया निर्दोषं सम्यग्दर्शनमेतत्, एकनयवादिनस्त्वविषये सूत्रव्यवस्थापनेन आत्मोत्कर्षेण विनष्टाः स्याद्वादाभिगमं प्रत्यनाद्रियमाणा वयं सूत्रधरा इत्यात्मानं श्लाघमानाः सम्यग्दर्शनं विनाशयन्ति, तदात्मनि न व्यवस्थापयन्तीति यावत् ॥ ६२ ॥ अथ न ते आगमप्रत्यनीकाः तद्भक्तत्वात्, तदेशपरिज्ञानवन्तश्चेति कथं तद्विनाशयन्तीत्यत्राह — हु सासणभत्तीमेत्तएण सिद्धंतजाणओ होइ । ण विजाणओ विणियमा पण्णवणाणिच्छिओ णामं ||६३॥ न च शासनभक्तिमात्रेण सिद्धान्तज्ञाता भवति । न विज्ञाताऽपि नियमात् प्रज्ञापनानिश्चितो नाम || छाया || न चेति, न च शासनभक्तिमात्रेणैव सिद्धान्तज्ञाता भवति, न च तदज्ञानवान् भावसम्यक्त्ववान् भवति, अज्ञातस्यार्थस्य विशिष्टरुचिविषयत्वानुपपत्तेः तद्भक्तिमात्रेण श्रद्धासारितया द्रव्यसम्यक्त्वम्, मार्गानुसार्यवबोधमात्रानुषक्तरुचिस्वभावं तु सदपि न भावसम्यक्त्व साध्यफलनिर्वर्त्तकम्, भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वरूपत्वोपपत्तेः । न च जीवादितत्त्वैकदेशज्ञाताऽपि नियमतोऽनेकान्तात्मक वस्तुस्वरूपप्रज्ञापनायां निश्चितो भवति, एकदेशज्ञानवतः सकलधर्मात्मकवस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणासम्भवात् । तथाहि सर्वज्ञो यथावस्थितैकदेशज्ञः जीवादिसकलतत्त्वज्ञता तु आगमविदः सामान्यरूपतया 25 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420