Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
efferratioम् |
: ३४३ :
"
षामनुमेय माध्यात्मिकं तत्त्वार्थसङ्ग्रहादौ चातुर्विध्येन प्रदर्शितं संक्षेपतः, अन्यत्र दशविधम्, तद्यथा अपायोपायजीवाजीव विपाक विरागभवसंस्थानाज्ञाहेतुविवयानि चेति, लोकसंसारविचययोः संस्थानभवविचययोरन्तर्भावान्नोद्दिष्टदशभेदेभ्यः पृथगभिधानम्, एतेषां स्वरूपाण्यन्यत्र द्रष्टव्याणि । एतच्च सर्वं धर्मध्यानं श्रेयोहेतुत्वात् एतच्च संवररूपम्, अशुभाप्रत्यनीकत्वात् गुप्तिस मितिधर्मानुप्रेक्षादीनाञ्चासत्रप्रतिबन्धकारित्वात् । अयमपि जीवाजीवाभ्यां कथचिदभिन्नो भेदाभेदैकान्ते दोषोपपत्तेः । न चायमेकान्तवादिनां घटते, मिध्याज्ञानान्मिथ्याज्ञानस्य निरोधानुपपत्तेः । संवरश्च सर्वदेशभेदतो द्विविधः, पीतपद्मलेश्याबलाधानमप्रमत्तसंयतस्यान्तर्मुहूर्त्तकालप्रमाणं स्वर्गसुखनिबन्धनमेतद्धर्मध्यानम् । कपायदोषमलापगमात् शुचित्वं तदनुषङ्गात् शुक्लं ध्यानम, शुकपरमशुक्लभेदात्तच द्विविधम् । तत्र पृथक्त्ववितर्कवीचारमेकत्व वितर्कवीचारखेति शुकुं द्विविधम् । सूक्ष्मक्रियाप्रतिपातिव्युपरत क्रिया- 10 निर्वति चेति परमशुक्लमपि द्विविधम्, एतदपि बाह्याध्यात्मिकभेदेन द्विविधम् । गात्रदृष्टिपरिस्पन्दाभावः जम्भोगारक्षवथुविरहोऽनभिव्यक्तप्राणापानप्रचारत्वमित्यादिगुणयोगि
बाह्यं परेषामनुमेयमात्मनश्च स्वसंवेद्यम्, आध्यात्मिकन्तु नानात्वेन द्वादशाङ्गस्योर्थव्यञ्जनयोगेषु संक्रान्तिर्यस्मिन्नस्ति तत् पृथक्त्ववितर्कवीचारम्, तथाहि असावुत्तमसंहननो भावयति विजृम्भितपुरुषकारवीर्यसामर्थ्यः संहृताशेषचित्तव्याक्षेपः कर्मप्रकृतीः स्थित्यनुभागा - 15 दिभिर्ह्रासयन् महासंवरसामर्थ्यतो मोहनीयमचिन्त्य सामर्थ्य मशेषमुपशमयन् क्षपयन् वा द्रव्यपरमाणुं भावपरमाणुवैकमवलम्ब्य द्रव्यपर्यायार्थाद्व्यञ्जनं व्यञ्जनाद्वाऽर्थं योगायोगान्तरं व्यञ्जनाद्व्यञ्जनान्तरच संक्रामन् पृथक्त्ववितर्क वीचारं शुकुतरलेश्यमुपशम कक्षपकगुणस्थानभूमिकमन्तर्मुहूर्त्ताद्धं क्षायोपशमिक भूमिकं प्रायः पूर्वधरनिषेव्यमाश्रितार्थव्यञ्जनयोगसंक्रमणं श्रेणिभेदात् स्वर्गापवर्गफलप्रदमाद्यं शुकुध्यानमवलम्बते, एतच निर्जरात्मकम्, आत्मस्थित - 20 कर्मक्षयकारणत्वात्, 'तपसा निर्जरा च [ तत्त्वार्थ० ९ - ३ ] इति वचनात् ध्यानस्य चान्तरोत्कृष्टतपोरूपत्वात् । जीवाजीवाभ्यां कथचिदसावभिन्ना द्व्यङ्गुलवियोगवद्वियुक्तात्मनो वियोगस्य कथञ्चिदभेदात् । एकान्तवादे तु पूर्ववत् पश्चादध्यवियोग:, अतद्धर्मस्वात् वियोगे वा पूर्वमपि तत्स्वभावत्वादयुक्तस्य वियोगभाव एव न हि बन्धाभावे तद्विनाशः सम्भवी, तस्य वस्तुधर्मत्वात् न ह्यङ्गुल्योः संयोगाभावे तद्वियोग इति व्यवहारः, तस्मा- 25
"
"
१ अर्थो द्रव्यं, व्यञ्जनं शब्दः, योगो मन आदिः, एषु संक्रान्ति:, अर्थाद्व्यञ्जनमित्यादिरूपेण संकमणम्, तत रागपरिणामरहितस्य ध्यातुः पृथक्त्वेन भेदेन विस्तीर्णभावेन अन्ते वितर्कः श्रुतं यस्मिंस्तत् तथाविधं वीचारं पृथक्त्ववितर्कवीचारम् । द्वितीयन्तु अर्थव्यञ्जनयोगसंक्रान्तिरहितमभेदेन व्यञ्जनरूपमर्थरूपं वा यत्र तथाविधं पूर्वमतश्रुतालम्बनं पूर्वगतश्रुतानुसारिध्यानमेकत्ववितर्कम् । तत्र प्रथमं योगे योगेषु वा द्वितीयमेकयोग एव तृतीयं सूक्ष्म क्रियाऽनित्रत्र्तिकाययोग एव चतुर्थं व्युपरतक्रियं योगाभावादयोगिनि भवति ॥
5
"Aho Shrutgyanam"

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420