Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 394
________________ सम्मतितत्त्वसोपाने [ अष्टत्रिंशम् फलनिर्वर्तकत्वादप्रशस्तः, प्रशस्ताप्रशस्तात्मपरिणामोद्भूतस्य कर्मणः सुखदुःखसंवेदनीय फलनिर्वतकत्वात् । तत्र अंप्रशस्तात्मपरिणामो द्विविधः आर्सरौद्रभेदात् , आमुहूर्तस्थायी आक्रन्दनविलपनपरिदेवनशोचनपरविभव विस्मयविषयसङ्गादिकश्च स्वसंवेद्य आत्मनः परेषामनुमेयश्च क्लिष्टः परिणामविशेष आर्तध्यानशब्दवाच्यो बाह्यः, आभ्यन्तरवामनोझसम्प्रयो5 गानुत्पत्त्यध्यवसानम् , उत्पन्नस्य च विनाशाध्यवसायः, मनोज्ञसम्प्रयोगस्योत्पत्तिकल्पनाध्य वसायः, उत्पन्नस्य विनाशसंकल्पाध्यवसानमित्येत चतुर्विधमार्तध्यानम् । अमनोज्ञसम्प्रयोगश्व बाह्याध्यात्मजत्वेन द्विधा, शीतातपव्यालादिजनितो बायः, वातपित्तश्लेष्मादिप्रादुर्भूतोऽभ्यन्तरः शारीरः, भयविषादारतिशोकजुगुप्सादौर्मनस्यादिप्रभवो मानसः, अयं मनोज्ञसम्प्रयोगः कथं नाम न मे सम्पद्यत इति संकल्पप्रबन्ध आर्तध्यानं कृष्णनीलकापोतलेश्याबलाधायक 10 प्रमादाधिष्ठानम् , आ प्रमत्तगुणस्थानात्तिर्यकमनुष्यगतिनिर्वर्तकमुत्कर्षापकर्षभेदात् क्षायोपश मिकभावरूपं परोक्षज्ञानरूपत्वात् । हिंसानृतस्तेयसंरक्षणानन्दभेदेन रौद्रं चतुर्विधम् , हिंसायामानन्दो रुचिर्यस्मिस्तदिति हिंसानन्द इत्येवं सर्वत्र । एतदपि बाह्याध्यात्मभे. दतो द्विविधम् । परुषनिष्ठुरवचनाकोशनिभर्सनताडनपरदारातिक्रमाभिनिवेशादिरूपं बास्यम् , स्वपराभ्यां स्वसंवेदनानुमानगम्यं तत् । आध्यात्मिकं हिंसायां संरम्भसमारम्भादिलक्षणायां 15 नैघण्येन प्रवर्त्तमानस्य संकल्पाध्यवसानं प्रथमं हिंसानन्दं नाम , परेषामनेकप्रकारैर्मि ध्यावचनैर्वश्चनं प्रति संकल्पाध्यवसानं मृषानन्दं नाम । परद्रव्यापहरणं प्रति अनेकोपायैः संकल्पाध्यवसानं स्तेयानन्दम् । परिग्रहे मम एवेदं स्वम् , अहमेवास्य स्वामीत्यभिनिवेशः तदपहर्तृविघातेन संरक्षणं प्रति संकल्पाध्यवसानं संरक्षणानन्दम् । चतुर्विधमप्येतत् कृष्णादिलेश्याबलाधायक प्राक् प्रमत्तगुणस्थानात् प्रमादादिष्ठानं कषायप्राधान्यादौदयिक2 भावरूपं नरकगतिफलनिर्वर्तकं पापध्यानद्वयमपि हेयम् । उपादेयन्तु प्रशस्तं धर्मशुक्लध्यान द्वयम् , तत्र पर्वतगुहाजीर्णोद्यानशून्यागारादौ मनुष्याद्यापातविकलेऽवकाशे मनोविक्षेपनिमित्तशून्ये सत्त्वोपघातरहिते उचिते शिलातलादौ यथा समाधानं विहितपर्यङ्कासन ऊर्ध्वस्थानस्थो वा मन्दमन्दप्राणापानप्रचारः निरुद्धलोचनादिकरणप्रचारो हृदि ललाटे मस्तकेऽन्यत्र वा यथापरिचयं मनोवृत्ति प्रणिधाय मुमुक्षुयायेत् प्रशस्तं ध्यानम् । तत्र बाह्याध्यात्मिकभा25 वानां याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यम् , तविविधं बाह्यमाध्यात्मिकञ्च, सूत्रार्थपर्यालोचनं दृढवतता शीलगुणानुरागः निभृतकायवारव्यापारादि बाह्यम् , आत्मनः स्वसंवेदनग्राह्यमन्ये १ विषयान्तरसञ्चारानन्तरितकार्थविज्ञानेऽन्तर्मुहूर्त निष्प्रकम्पतया चेतसो वर्तनं ध्यानम् , तचतुर्विधमातरौद्रधर्मशुक्ल मेदात् । आये अप्रशस्ते अपरे च प्रशस्ते इल्याशयेनाह प्रशस्तेति ॥ २ अपरिणतयोगादीनां ध्यानस्थानमाह-तत्रेति, परिणतानान्तुं सर्वत्र तुल्यभावत्वाजनाकीणे तच्छ्न्ये वा स्थाने ज्यानं भवति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420