________________
: ३४० :
सम्मतितत्त्वसोपाने
[ अष्टत्रिंशम्
व्यो मन्तव्यो निदिध्यासितव्यः' इत्यादि, सत्ताद्रव्यत्वसम्बन्धात् सद्रव्यं वस्तु' इति, ' परलोकिनोऽभावात् परलोकाभाव: ' इति, ' चोदनालक्षणोऽर्थो धर्मः ' इति, धर्माधर्मक्षयङ्करी दीक्षा' इत्यादिकमधीत्य सूत्रधरा वयमिति शब्दमात्रेण गर्विता अविदितसूत्रव्यापारविषयास्ते, सूत्राभिप्रायव्यतिरिक्तविषयविप्रतिपत्तित्वादितरजनवदज्ञा इत्यभिप्रायः । अथवा 5 स्वयुध्या एवैकनयदर्शनेन कतिचित्सूत्राण्यधीत्य केचित् सूत्रधरा वयमिति गर्विता यथास्थि तान्यनयस व्यपेक्ष सूत्रार्थापरिज्ञानादविदितात्मविद्वत्स्वरूपा इति गाथाभिप्रायः ॥ ६१ ॥ अथैषामेकन यप्रदर्शनेन प्रवृत्तानां यो दोषस्तमाह
10
15
20
सम्मर्द्दसणमिणमो सयलसमत्तवयणिजणिद्दोसं । अत्तुकोसविणट्ठा सलाहमाणा विणासेंति ॥ ६२ ॥
सम्यग्दर्शनमेतत् सकलसमाप्तवचनीयनिर्दोषम् । आत्मोत्कर्षविना श्लाघमाना विनाशयति ॥ छाया ||
सम्यगिति परस्पर विषयापरित्यागप्रवृत्ताने कनयात्मकं स्यान्नित्य इत्यादिसकलधर्मपरिसमाप्तवचनीयतया निर्दोषं सम्यग्दर्शनमेतत्, एकनयवादिनस्त्वविषये सूत्रव्यवस्थापनेन आत्मोत्कर्षेण विनष्टाः स्याद्वादाभिगमं प्रत्यनाद्रियमाणा वयं सूत्रधरा इत्यात्मानं श्लाघमानाः सम्यग्दर्शनं विनाशयन्ति, तदात्मनि न व्यवस्थापयन्तीति यावत् ॥ ६२ ॥
अथ न ते आगमप्रत्यनीकाः तद्भक्तत्वात्, तदेशपरिज्ञानवन्तश्चेति कथं तद्विनाशयन्तीत्यत्राह —
हु सासणभत्तीमेत्तएण सिद्धंतजाणओ होइ ।
ण विजाणओ विणियमा पण्णवणाणिच्छिओ णामं ||६३॥
न च शासनभक्तिमात्रेण सिद्धान्तज्ञाता भवति ।
न विज्ञाताऽपि नियमात् प्रज्ञापनानिश्चितो नाम || छाया ||
न चेति, न च शासनभक्तिमात्रेणैव सिद्धान्तज्ञाता भवति, न च तदज्ञानवान् भावसम्यक्त्ववान् भवति, अज्ञातस्यार्थस्य विशिष्टरुचिविषयत्वानुपपत्तेः तद्भक्तिमात्रेण श्रद्धासारितया द्रव्यसम्यक्त्वम्, मार्गानुसार्यवबोधमात्रानुषक्तरुचिस्वभावं तु सदपि न भावसम्यक्त्व साध्यफलनिर्वर्त्तकम्, भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वरूपत्वोपपत्तेः । न च जीवादितत्त्वैकदेशज्ञाताऽपि नियमतोऽनेकान्तात्मक वस्तुस्वरूपप्रज्ञापनायां निश्चितो भवति, एकदेशज्ञानवतः सकलधर्मात्मकवस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणासम्भवात् । तथाहि सर्वज्ञो यथावस्थितैकदेशज्ञः जीवादिसकलतत्त्वज्ञता तु आगमविदः सामान्यरूपतया
25
"Aho Shrutgyanam"