________________
सोपानम् ]
आर्त्तादिध्यानवर्णनम् ।
: ३३९ :
तद्विधीयमानं काम्यमानफलसद्भावेऽपि तत्कर्मनिमित्तं तद्भवत्येव । न च हिंसातः स्वर्गसुखप्राप्ताव सुख निर्वर्त्तक क्लिष्टकर्म हेतुताऽसङ्गता, नरेश्वराराधननिभित्तब्राह्मणादिवधानन्तरावाप्रप्रामादिलाभजनित सुखसम्प्राप्तौ तद्वधस्यापि तथात्वोपपत्तेः । अथ ग्रामादिलाभो ब्राह्मणादिवधनिर्वर्त्तितादृष्टनिमित्तो न भवति तर्हि स्वर्गादिप्राप्तिरप्यध्वरविहितहिंसानिर्वर्तिता न भवतीति समानम् । अथाश्वमेधादावालभ्यमानानां छागादीनां स्वर्गप्राप्तेर्न तद्धिसा 5 हिंसेति तर्हि संसारमोचकविरचिताऽपि तत एव हिंसा न हिंसा स्यात्, देवतोद्देशतो म्लेच्छादिविरचिता च ब्राह्मणगवादिहिंसा न हिंसा स्यात् । अथ तदागमस्याप्रमाणत्वं तद्वेदस्यापि तुल्यम्, गुणवत्पुरुषप्रणीतत्वस्यापौरुषेयत्वस्य वा परैरनभ्युपगमात् तन्न प्रदशिताभिप्रायाद्विना हिंसातो धर्मावाप्तिर्युक्ता । परमप्रकर्षावस्थ ज्ञानदर्शनचारित्रात्मक मुक्तिमार्गस्य दीक्षाशब्देनाभिधाने दीक्षातो मुक्तिरुपपन्नैव, अविकलकारणस्य कार्यंनिर्वर्त्तकत्वात्, 10 अन्यथा करणत्वायोगात् । तत्र तद्भक्त्युत्पादनार्थं चैवमभिधानाददोषः, न हि तद्भक्तयभावे उपादेयफलप्राप्तिनिमित्तसम्यग्ज्ञानादिपुष्टिनिमित्त दीक्षाप्रवृत्तिप्रवणो भवेत्, तन्नान्यपरत्वं प्रदर्शितवचसामभ्युपगन्तव्यम्, तथाऽभ्युपगमे वा अनाप्तत्यं तद्वादिनां प्रसज्येत तत्र पूर्वोक्तदोषानतिवृत्तेः || ६० ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्द सूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितस्वसोपाने सन्मार्गप्रदर्शनं नाम सप्तत्रिंशं सोपानम् ॥
»0k
अथाऽऽर्त्तादिध्यानवर्णनम् ।
त्वविवेचितागमप्रतिपत्तिमाश्रयन्ते तेऽनवगतपरमार्था एवेत्याह
पाडेक्कनय पहगयं सुत्तं सुत्तहरसद्दसंतुट्ठा । अविकोवियसामत्था जहागमविभत्तपडिवत्ती ॥ ६१ ॥
प्रत्येकनयपथगतं सूत्रं सूत्रधरशब्दसन्तुष्टाः । अविकोविदसामर्थ्या यथागमाविभक्तप्रतिपत्तयः ॥ छाया ॥
प्रत्येकेति, प्रत्येकनयमार्गगतं सूत्रम् यथा ' क्षणिकाः सर्वे संस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः ! यदिदं त्रैधातुकम् ' इति, ' ग्राह्यग्राहको भयशून्यं तत्त्वम् ' इति, नित्यमेकमण्डव्यापि निष्क्रियम्' इत्यादि, 'सदकारणवन्नित्यम् ' इति, ' आत्मा रे श्रोतव्यो ज्ञात
" Aho Shrutgyanam"
15
20
25