________________
सम्मतितस्वसोपाने
[ समत्रिंशम् स्यैकान्तवाद्यभ्युपगतस्य सर्वस्य पारमार्थिकत्वादभिष्वङ्गादिप्रतिषेधार्थ विज्ञानमात्राभिधानस्य सार्थकत्वात् , तथाहि अहमस्यैवायं ममैवेत्येकान्तनित्यत्वस्वस्वामिसम्बन्धाभिनिवेशप्रभवरागादिप्रतिषेधपरं क्षणिकरूपादिप्रतिपादनं युक्तमेव, सालम्बनज्ञानकान्तप्रतिषेधपरं विज्ञानमात्राभिधानम् , सर्वविषयाभिष्वङ्गनिषेधपरं शून्यताप्रकाशनम् , क्षणिक एवायं पृथि5 व्यादिरित्येकान्ताभिनिवेशमूलद्वेषादिनिषेधपरं तन्नित्यत्वप्रणयनम् , जात्यादिमदोन्मूलतानु
गुणमात्माद्यद्वैतप्रकाशनम् , जन्मान्तरजनितकर्मफलभोक्तृत्वमेव धर्मानुष्ठानमित्येकान्तनिरा. सप्रयोजनं परलोकाभावावबोधनम् , द्रव्याद्यव्यतिरेकैकान्तप्रतिषेधाभिप्रायं तद्भेदाख्यानम् , अप्रमत्तस्य योगनिबन्धनप्राणव्यपरोपणस्याहिंसात्वप्रतिपादनाथ हिंसातो धर्म इति वचनम् ,
रागद्वेषमोहतृष्णादिनिबन्धनस्य प्राणव्यपरोपणस्य दुःखसंवेदनीयफलनिर्वर्तकत्वेन हिंसा10 स्वोपपत्तेः, अत एव वैदिक हिंसाया अपि तन्निमित्तत्वेऽपायहेतुत्वमन्यहिंसावत् प्रसक्तम् , न
च तस्या अतन्निमित्तत्वम् , चित्रया यजेत पशुकाम इति तृष्णानिमित्तत्व श्रवणात् । न चैवं. विधस्य वाक्यस्य प्रामाण्यमपि, तत्प्राप्तिनिमित्ततद्धिसोपदेशकत्वात् , तृष्णादिवृद्धिनिमित्ततदन्यतद्विघातोपदेशवाक्यवत् । न चापौरुषेयत्वादस्य प्रामाण्यं तस्य निषिद्धत्वात् । न च
पुरुषप्रणीतस्य हिंसाविधायकस्य तस्य प्रामाण्यम् , ब्राह्मणो हन्तव्य इति वाक्यवत् । न च 15 वेदविहितत्वात्तद्धिंसाया अहिंसात्वम , प्रकृत हिंसाया अपि तस्वोपपत्तेः । न च ब्राह्मणो न
हन्तव्य इति तद्वाक्यबाधितत्वान्न प्रकृतहिंसायास्तद्विहितत्वम् , न वै हिंस्रो भवेदिति वेदबाक्यबाधितचित्रादियजनवाक्यविहित हिंसावत् प्रकृतहिंसायास्तद्विहितत्वोपपत्तेः । अथ ब्राह्मणो हन्तव्य इतिवाक्यं न कचिद्वेदे श्रूयते, न, उत्सन्नानेकशाखानां तत्राभ्युपगमात् ,
तथा च सहस्रव िसामवेद इत्यादिश्रुतिः । अथ यज्ञादन्यत्र हिंसाप्रतिषेधः, तत्र च तद्वि. 20 धानम् , यथा चान्यत्र हिंसाऽपायहेतुरित्यागमात् सिद्धं तथा तत एव तत्र स्वर्गहेतुरित्यपि सिद्धम् , न च यदेकदा एकत्रापायहेतुः तत्सर्वदा सर्वत्र तथेत्यभ्युपगन्तव्यम् , आतुरस्वस्थभुजिक्रियावदवस्थादिभेदेन भावानां परस्परविरुद्ध फलकतत्वोपलम्भात् , असम्यगेतत् , तृष्णादिनिमित्तहिंसाया अपायहेतुत्वेन सर्वशास्त्रेषु प्रसिद्धः, तृष्णादिनिमित्ता च प्रकृतहिंसेत्युक्त. त्वात् । न च यन्निमित्तत्वेन यत् प्रसिद्धं तत्फलान्तरार्थित्वेन विधीयमानमौत्सर्गिक दोषं न निर्वतयति, यथाऽऽयुर्वेदप्रसिद्धं दाहादिकं रुगपगमार्थितया विधीयमानं स्वनिमित्तं दुःखम् , क्लिष्टकर्मसम्बन्धहेतुतया च मखविधानादन्यत्र हिंसादिकं शाने प्रसिद्धमिति सप्ततन्तावपि
१ न च जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः, यतः तदर्शनात् गुणानुरागितया भव्यानां बोधिलाभः, पूजातिशयविलोकनादिना च मनःप्रसादस्ततः समाधिः, ततश्च क्रमेण निःश्रेयसभाप्तिरिति स्वल्पपुण्यव्ययेनापरिमितसुकृतसम्प्राप्तिरस्ति, न तु वैदिकहिंसायां तथा, यमनियमाद्युपायान्तरतोऽपि स्वर्गावाप्तिसम्भवादिति ।।
26
"Aho Shrutgyanam"