SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] आर्त्तादिध्यानवर्णनम् । : ३४१ : अभिधीयते ' मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेषु ' [ तत्त्वार्थ० १ २७] इति वचनात् । . तध्वन्तु जीवाजीवास्रवबन्धसंवर निर्जरा मोक्षाख्याः सप्त पदार्थाः, तत्र चेतनालक्षणोऽर्थो जीवः, तद्विपरीतलक्षणस्त्यजीवः, असौ धर्माधर्माऽऽकाशकालपुद्गलभेदतः पञ्चधा, एतत्पदार्थद्वयान्तर्वर्त्तिनश्च सर्वेऽपि भावाः, न हि रूपरसगन्धस्पर्शादयः साधारणा साधारणरूपाः मूर्त्तामूर्तचेतनाचेतनद्रव्यगुणाः, उत्क्षेपणापक्षेपणादीनि च कर्माणि सामान्यविशेषसमवायाश्च जीवा- 5 जीवव्यतिरेकेणाऽऽत्मस्थितिं लभन्ते, तद्भेदेनैकान्ततस्तेषामनुपलम्भात् तदात्मकत्वेन प्रतिपत्तेः, अन्यथा तदसत्त्वप्रसक्तेः । ततो जीवाजीवाभ्यां पृथक् जात्यन्तरत्वेन द्रव्यगुणकर्मसामान्यविशेषसमवाया न वाच्याः, एवं प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयत्रतर्क निर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानि च न पृथगभिधानीयानि, तथा प्रकृतिमहदहङ्कारादिचतुर्विंशतिः पदार्थाः पुरुषश्चेति न वक्तव्यम्, एवं दुःखसमुदायमार्गनिरोधाश्वत्वा- 10 र्यार्यसत्वानि न वक्तव्यानि पृथिव्यापस्तेजोवायुरिति तत्त्वानीत्यपि न वक्तव्यम् । तत्प्रभेदरूप तयाऽभिधाने न दोषः, जात्यन्तरकल्पनाया एवाघटमानत्वात्, राशिद्वयेन सकलस्य जगतो व्याप्तत्वात्, तद्व्याप्तस्य शशशृङ्गतुल्यत्वात् । शब्दब्रह्माद्येकान्तस्य च पूर्वं निषिद्धत्वात्, अबाधितरूपोभयप्रतिभासस्य तथाभूतवस्तुव्यवस्थापकस्य प्रसाधितत्वात् विद्याऽविद्याद्वयभेदाद् द्वैतकल्पनायामपि त्रित्वप्रसक्तेः, बाह्यालम्बनभूतभावापेक्षया विद्यात्वोपपत्तेः, अन्यथा निर्विषयत्वेनोभयोरविशेषात् तत्प्रविभागस्याघटमानत्वात्, न हि द्वयोर्निरालम्बनत्वे विपर्यस्ताविपर्यस्तज्ञानयोरिव विद्याविद्यात्त्रभेदः, ततो नाद्वयं वस्तु नापि तद्व्यतिरिक्तमस्ति । आस्रवादीनां राशिद्वयेऽन्त भूतत्वेऽपि कथञ्चिद्भेदेनाभिधानं तथापरिणतयोर्जीवाजीवयोरेव सकाररणसंसारमुक्तिप्रतिपादनपरम्, अनेन वा क्रमेण तज्ज्ञानस्य मुक्तिहेतुत्वप्रदर्शनार्थम्, विप्रतिपत्तिनिरासार्थत्वं वा, ततो न दुष्टता तथाभिधानस्य । कायवाङ्मनोव्यापारो हि आस्रवः कर्महेतुत्वात् स च जीवाजीवाभ्यां कथञ्चिद्भिन्नः, तथैव प्रतीतेः । अथ बन्धाभावे कथं तस्योपपत्तिः, प्राक् सद्भावे वा न तस्य बन्धहेतुता, न हि यद्यद्धेतुकं तत्तदभावेऽपि भवत्यतिप्रसङ्गात्, असदेतत्, पूर्वोत्तरापेक्षयाऽन्योऽन्यं कार्यकारणभावनियमात्, न चेतरेतराश्रयदोषः, प्रवाहापेक्षयाऽनादित्वात् । पुण्यापुण्यबन्धनहेतुतया चासौ द्विविधः, उत्कर्षापकर्षभेदेनेकप्रकारोsपि दण्ड गुत्यादित्रित्वादि संख्या भेदमासादयन् फलानुबन्ध्यननुबन्धिभेदतोऽनेकशब्दविशेषवाच्यतामनुभवति, एकान्तवादिनां नायं सम्भवति, तन्निमित्तः सकषायस्यात्मनः कर्म वर्गणापुद्गलैः संश्लेषो बन्धः, स च सामान्येनैकविधोऽपि प्रकृतिस्थित्युभाग प्रदेशभेदेन चतुर्धा पुनरेकैको ज्ञानावरणीयादिमूलप्रकृतिभेदादष्टविधः पुनरपि मत्यावरणाद्युत्तरप्रकृतिभेदादनेकविधः अथ कश्चित्तीर्थ करत्वादिफलनिर्वर्त्तकत्वात् प्रशस्तः, अपरश्च नारकादि "Aho Shrutgyanam" 15 20 25
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy