________________
सम्मतितस्वसोपाने
[ सप्तर्विधम् न क्रमेण कार्यनिर्वतकः । नापि यौगपधेन, कालान्तरेऽकिश्चित्करतया तस्यावस्तुस्वापत्तेः क्षणमात्रावस्थायिताप्रसक्तेश्च । तस्मादन्यप्रकाराभावेन व्यापिकाऽर्थक्रिया ततो निवर्तमाना स्वव्याप्यां सत्तामादाय निवर्तत इति यत्सत्तत्सर्वमनेकान्तात्मक सिद्धम् ,
अन्यथा प्रत्यक्षादि विरोधप्रसङ्गः, न हि भेदमन्तरेण कदाचित् कस्यचिदभेदोपलब्धिः 5 हर्षविषादाद्यनेकाकारविवर्तात्मकस्थान्तश्चैतन्यस्य स्वसंवेदनाध्यक्षतः वर्णसंस्थानसदायनेकाकारस्य स्थूलस्य पूर्वापरस्वभावपरित्यागोपादानात्मकस्य घटादेवहिरेकस्येन्द्रियजाध्यक्षतः संवेदनात्, सुखादिभेदविकलतया चैतन्यघटादेः कदाचिदप्युपलम्भागोचरत्वात् , महासामान्यस्यावान्तरसामान्यस्य वा सर्वगतासर्वगतधर्मात्मकस्य व्यक्त्यतिरिक्तस्वभावतया
कदाचित्कचिदनुपलब्धेर्द्रव्यगुणकर्मणां कथं तद्विशिष्टतया प्रतिपत्तिर्भवेत् । समवायस्य चान10 वस्थादोषतः सम्बन्धान्तराभावात् द्रव्यगुणकर्मसामान्य विशेषाणामन्योन्यं तादात्म्यानिष्टौ
तेष्ववृत्तः सर्वपदार्थस्वरूपाप्रसिद्धिः स्यात् । स्वत एव द्रव्यादिषु वृत्तौ समवायमन्तरे. णापि द्रव्यादयोऽपि स्वाधारेषु वृत्ति स्वत एवात्मसात्करिष्यन्तीति समवायकल्पनावैयर्थ्य. प्रसक्तिः । अवयविनोऽपि स्वारम्भकावयवेषु तादात्म्यानभ्युपगमे सामान्यस्येव तद्वत्सु वृत्ति
विकल्पादनवस्थादिदोषप्रसङ्गान्न वृत्तिर्भवेत् , वृत्तौ वा साकल्येन प्रत्याधार ग्रहणासम्भ15 वात व्यक्तिवद्भेदप्रसक्तिः खण्डशः प्रतिपत्तरगृहीतस्वभावाद्गहीतस्वभावस्य भेदात् , तथा च
सामान्यादिरूपताहानिप्रसक्तिः ! किश्च सर्वस्वाधारव्यापिन: सामान्यस्य द्रव्यस्य वा तद्वतां
सामस्त्येन ग्रहणासंभवात् कथं तदग्रहे तगृहणं भवेस , आधाराप्रतिपत्तौ तदाधेयस्य तत्वे. . नाप्रतिपत्तेः, सामान्यायशेषु गृहीतेष्वपि सामान्यादेर्वृत्तिविकल्पादेर्दोषस्तेष्वपि पूर्ववत्स
मानः, तदंशग्रहणेऽपि च सामान्यस्य व्यापिनः कदाचिदप्यप्रतिपत्तेः सद्व्यमित्यादिप्रति20 पत्तिः तद्वत्सु न कदाचिद्भवेत् , तदंशानां सामान्यादेरत्यंतभेदात् , अत एव द्रव्यादिषट्पदार्थव्यवस्थाप्यनुपपन्ना भवेत् , प्रतिभासगोचरचारिणां सामान्यायंशानां पदार्थान्तरताप्र. सक्तेः । अथ निरंशं सामान्यमभ्युपगम्यते तर्हि सकलस्वाश्रयप्रतिपत्त्यभावतो मनागपि न सामान्यप्रतिपत्तिरिति सद्रव्यं पृथिवीत्यादिप्रतिपत्तेनितरामभावः स्यात् । तदंशानां
सामान्याद्भेदाभेदकल्पनायां द्रव्यादय एव भेदाभेदात्मकाः किं नाभ्युपगम्यन्त इति 25 सामान्यादिप्रकल्पना दूरोत्सारितैवेति कुतस्तद्भेदैकान्तकल्पना, सतः सामान्यविशेषात्मकं
सर्व वस्तु सत्त्वात्, न हि विशेषरहित सामान्यमानं सामान्यरहितं विशेषमात्रं वा सम्भवति, तादृशः कचिदपि वृत्तिविरोधात्, वृत्त्या हि सत्त्वं व्याप्तं स्वलक्षणात् सामान्यलक्षणाद्वा तादृशाद्वृत्तिनिवृत्त्या निवर्त्तत एव, यतः कचिद्वृत्तिमतोऽपि स्वलक्षणस्य न देशान्तरवर्तिनान्येन संयोगः तत्संसर्गाव्यवच्छिन्नस्वभावान्तरविरहात, विशेषविक
"Aho Shrutgyanam"