________________
सोपान
सम्भार्गप्रदर्शनम् । प्रति प्राग्भावित्वाविशेषान , तथा च स्वपरसन्तानव्यवस्थाऽप्यनुपपन्नैव स्यात् सादृश्यादपि तदसम्भवात् सर्वथा सादृश्ये हि कार्यस्य कारणरूपताप्रसक्त्यैकक्षणमात्र सन्तानः स्यात् , कथश्चित्सादृश्येऽनेकान्तवादप्रसङ्गः, न वा सादृश्यं भवदभिप्रायेणास्ति, सर्वत्र वैलक्षण्याविशेषात , अन्यथा स्वकृतान्तप्रकोपात , नापि क्षणिकैकान्तपक्षेऽन्वयव्यतिरेकप्रतिपत्तिः, साध्यसाधनयोखिकालविषययोः साकल्येन व्याप्तेरसिद्धर्यत्सत् तत्सर्व क्षणिक संश्च शब्द 5 इत्याद्यनुमानप्रवृत्तिः कथं भवेत् , अकारणस्य प्रमाणविषयत्वानभ्युपगमे साध्य साधनयोस्त्रिकालविषयव्याप्तिग्रहणस्य दूरोत्सारितत्वात् । तथा नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषय इति वचनमनुमानोच्छेदकश्च प्रसक्तम् , ग्राह्यग्राहकाकारज्ञानैकत्ववद्राह्याकारस्यापि युगपदने कार्थावभासिनश्चित्रैकरूपता एकान्तवादं प्रतिक्षिपत्येव । श्रान्तात्मनश्च दर्शनस्यान्तर्बहिश्वाभ्रान्तात्मकत्वं कथञ्चिदभ्युपेयम , अन्यथा कथं स्वसंवेदनाध्यक्षता तस्य भवेत् , 10 तदभावे च कथं तत्स्वभावसिद्धियुक्ता, कथश्च भ्रान्तज्ञानं भान्तिरूपतया आत्मानमसंविदज्ज्ञानरूपतया वाऽवगच्छदहिस्तथा नावगच्छेत् , यतो भ्रान्त कान्तरूपता तिमिराद्यपप्लुतदृशां भवेत् , कथञ्च भ्रान्त विकल्पज्ञानयोः स्वसंवेदनमभ्रान्तमविकल्पं वाऽभ्युपगच्छन्ननेकान्तं नाभ्युपगच्छेत् , ग्राह्यग्राहकसंवित्याकारविवेकं संविदः स्वसंवेदनेनासंवेदयन संवि. दूपताश्चानुभवन् कथं क्रमभाविनोर्विकल्पेतरात्मनोरनुगतसंवेदनात्मानमनुभवप्रसिद्धं प्रति- 15 क्षिपेत् , ततः क्रमसहभाविनः परस्पर विलक्षणान् स्वभावान् यथावस्थितरूपतया व्यानुवत्सकललोकप्रतीतं स्वसंवेदनमनेकान्ततत्त्रव्यवस्थापकमेकान्तवादप्रतिक्षेपि प्रतिष्ठितमिति निरंशक्षणिकरवलक्षणमन्तर्बहिश्वानिश्चितमपि संवित्तिर्विषयीकरोतीति कल्पना अयुक्तिसंगतैव, अप्रमाणप्रसिद्धकल्पनायाः सर्वत्र निरंकुशत्वात् सकलसर्वज्ञताकल्पनाप्रसक्तेः, न टेकस्य संवित्तिरपरस्यासंवित्तिः, सर्वत्र सम्बन्धाभावाविशेषात , न हि वास्तवसम्बन्धाभावे 20 परिकल्पितस्य तस्य नियामकत्वं युक्तमतिप्रसङ्गात् । न च वास्तवः सम्बन्धः परस्य सिद्ध इति तादात्म्यतदुत्पत्त्योरभावात् साध्यसाधनयोः प्रतिबन्धनियमाभावेऽनुमानप्रवृत्तिर्दूरोत्सारितैव, अथार्थक्रियालक्षणं सत्त्वमक्षणिकेऽवस्थास्यतीति चेन्न, तत्रापि क्रम योगपद्याभ्यां तस्य विरोधात , तत्करणस्वभावस्याक्षणिकस्य तदकरणविरोधेन क्रमकारित्वासम्भवात् , पूर्वं तदकरणसामर्थ्यस्य पश्चादपि तत्करणसामर्थ्यासम्भवात् , अप-5 रिणामित्वेनानाधेयाप्रहे यातिशयत्वात् , स्वभावोत्पत्तिविनाशाभ्युपगमे च नित्यैकान्तविरोधः स्यात् , ततो व्यतिरिक्तस्यातिशयस्य करणेऽनतिशयस्य तस्य प्रागिव पश्चादपि करणासम्भवः । सहकार्यपेक्षापि तस्यायुक्कैव, प्रागसहायस्याकरणस्वभावस्य पुनः सस. हायस्य कार्यकरणाङ्गीकारे तस्कृतातिशयमनङ्गीकुर्वतस्तदपेक्षायोगात्, तस्मादपरिणामी भावो
"Aho Shrutgyanam"