________________
सम्मतितत्त्व सोपाने
[ सप्तत्रिंशम्
न
जातिगुणादेः समवायिनो भेदेनोपलम्भात्, य एव दण्डदेवदत्तयोर्हि सम्बन्धो न स एव छत्रादिभिरपि तत्सम्बन्धाविशेषे तद्विशेषणविशेष्य वैफल्यप्रसङ्गात्, न हि विशेष्यं धर्मान्तराद्व्यवच्छिद्य स्वात्मन्यवस्थापयद्विशेषणं विशेषणरूपतां प्रतिपद्यते, एवं समवायश्याविशेषे द्रव्यत्वादीनामपि विशेषणानामविशेषान्न जीवाजीवादिद्रव्यव्यवच्छेदकता स्यादिति 5 कथं न समवायिसङ्करप्रसक्तिर्भवेत् । नापि समवायस्तग्राहकप्रमाणाभावात् सम्भवति, तदभावे च न वस्तुनो वस्तुत्वयोग इति तदनेकान्तात्मकैकरूपमभ्युपगन्तव्यम्, चैकाने कात्मकत्वं वस्तुनो विरुद्धम्, प्रमाणप्रतिपन्ने वस्तुनि विरोधासम्भवात्, तथाहि आत्मादिवत्वेकाने कात्मकम् प्रमेयत्वात् चित्ररूपपटवत, ग्राह्यग्राहकाकारसंवित्तिरूपैकविज्ञानवद्वा न च वैशेषिकं प्रति चित्रपटरूपस्यैकानेकत्वमसिद्धम्, प्राक्साधितत्वात् । 10 नापि ब्राह्मग्राहकसंवित्तिलक्षणरूपत्रयात्मकमेकं विज्ञानं बौद्धं प्रत्यसिद्धम्, तथाभूतविज्ञानस्य प्रत्यात्मसंवेदनीयस्य प्रतिक्षेपे सर्वप्रमाणप्रमेयप्रतिक्षेपप्रसक्तेः, स्वार्थाकारयोर्विज्ञानमभिन्नस्वरूपम्, विज्ञानस्य च वेद्यवेदकाकारौ भिन्नात्मानौ कथचिदनुभवगोचरापन्नौ, एतच प्रतिक्षणं स्वभावभेदमनुभवदपि न सर्वथा भेदवत् संवेद्यते इति संविदात्मनः स्वयमेकस्य क्रमवनेकात्मकत्वं न विरुद्धमिति कथमध्यक्षादिविरुद्धं निरन्वयविनाशित्वमभ्युपगन्तुं 15 युक्तम्, न हि कदाचित् क्वचित् क्षणिकत्वमन्तर्बहिर्वाऽध्यक्षतोऽनुभूयते, तथैवेति निर्णयानुत्पत्तेः, भेदात्मन एवान्तर्विज्ञानस्य बहिर्घटादेश्चाभिन्नस्य निश्चयात् । तथाभूतस्याप्यनुभवस्य भ्रान्तिकल्पनायां न किञ्चिदध्यक्षमभ्रान्तं भवेत्, न हि ज्ञानं वेद्यवेदकाकारशून्यं स्थूलाकारविविक्तं परमाणुरूपं वा घटादिकमेकं निरीक्षामहे यतो बाह्याध्यात्मिकं भेदाभेदरूप - तयाऽनुभूयमानं भ्रान्तविज्ञानविषयतया व्यवस्थाप्येत, या चैकान्तप्रतिक्षण विशरारुताऽ20 ध्यक्षविरुद्धा तदा कथं तत्रानुमानमपि प्रवर्त्तेत, अध्यक्षबाधितविषयत्वात्तस्य, अत एव क्षणिकतैकान्तसाधनाय उपादीयमानः सर्व एव सत्त्वादिहेतुर्विरुद्ध एव, अनेकान्त एव तस्य सम्भवात् । अर्थक्रियालक्षणं हि सत्त्वं नैकान्ते क्रमयौगपद्याभ्यां सम्भवति, यतो यस्मिन् सत्येव यद्भवति तत्तस्य कारणमितरच कार्यमिति कारणलक्षणम्, क्षणिके च कारणे सति -यदि कार्योत्पत्तिर्भवेत्तदा कार्यकारणयोः सहोत्पत्तेः किं कस्य कारणं किं वा कार्य व्यवस्था25 येत, त्रैलोक्यस्यैकक्षणवर्त्तिता च प्रसज्येत । यदनन्तरं यद्भवति तत्तस्य कार्यमितरत् कार णमिति व्यवस्थायां कारणाभिमते वस्तुन्यसत्येव भवतस्तदनन्तरभावित्वस्य दुर्घटत्वात्, चिरतरविनष्टादपि च तस्य भावो भवेत् तदभावाविशेषात् । न चानन्तरस्यापि कार्योत्पत्तिकालमप्राप्य विनाशमनुभवतश्चिरातीतस्येव कारणता, यतोऽर्थक्रियाऽक्षणक्षयेण विरुध्येत, प्राकालभावित्वेन कारणत्वे तु सर्वं सर्वस्य कारणं स्यात् सर्ववस्तुक्षणानां विवक्षितकार्य
"
: ३३४ :
" Aho Shrutgyanam"