________________
10
सोपानम् ] सन्मार्गप्रदर्शनम् ।
: ३३३ : च नातीततद्विषयस्मरणमात्रं प्रतीयते किन्तु तदनुभवितापि, अहमेवमिदमनुभूतवानित्यनुभवित्राधारानुभूत विषयस्मृत्यध्यवसायादेकाधारे अनुभवस्मरणे अभ्युपगन्तव्ये, तदभावे तथाध्यवसायानुपपत्तेः । न चानुभवस्मरणयोरनुगतचैतन्याभावे तद्धर्मतया प्रतिपत्तिर्युक्ता, न हि यत्प्रतिपत्तिकाले यन्नास्ति तत्तद्धर्मतया प्रतिपत्तुं युक्तम् , बोधाभावे प्राह्यग्राहकसंवित्तित्रितयप्रतिपत्तिवत् , अस्ति च तद्धर्मतयाऽनुभवस्मरणयोस्तदा प्रतिपत्तिरिति कथं क्षणिकै- 5 कान्तवादः, तत्र वा प्रतिबन्धनिश्चय इति । न चैकान्तवादिनः सामान्यादिकं साध्यं सम्भ. वतीत्युक्तम , तस्मादनेकान्तात्मकं वस्त्वभ्युपगन्तव्यम् , अध्यक्षादेः प्रमाणस्य तत्प्रतिपा. दकत्वेन प्रवृत्तेः ॥ ५९॥ स एव सन्मार्ग इत्युपसंहरति
दव्वं वित्तं कालं भावं पज्जायदेससंयोगे। भेदं च पडुच्च समा भावाणं पण्णवण पज्जा ।। ६० ।। द्रव्यं क्षेत्रं कालं भावं पर्यायदेशसंयोगान् ।।
मेदं च प्रतीत्य समा भावानां प्रज्ञापनापर्या ॥ छाया ॥ द्रव्यमिति, द्रव्यक्षेत्रकालभावपर्यायदेशसंयोगभेदानष्टौ भावानाश्रित्य वस्तुनो भेदे सति सर्ववस्तुविषयायाः स्याद्वादरूपायाः प्रज्ञापनायाः पर्या-पन्था मार्ग इति यावत् । 13 तत्र द्रव्यं पृथिव्यादि, क्षेत्रं स्वारम्भकावयवस्वरूपम् , तदाश्रयं वाऽऽकाशं, कालं युगपदयु. गपश्चिरक्षिप्रप्रत्ययलिङ्गलक्षणम् , वर्तनात्मकं वा नवपुराणादिलक्षणम् , भावं मूलारादिलक्षणम् , पर्यायं रूपादिस्वरूपम्, देश मूलाङ्करपत्रकाण्डादिक्रमभाविविभागम् , संयोगं भूम्यादिप्रत्येकसमुदायम् , द्रव्यपर्यायलक्षणं भेदं प्रतिक्षणविवर्तात्मकं वा जीवाजीवादिभावानां प्रतीत्य समानतया तदतदात्मकत्वेन प्रज्ञापना-निरूपणा या सा सत्पथ इति, न हि 20 तदतदात्मकैकद्रव्यत्वादिभेदाभावे खरविषाणादेर्जीवादिद्रव्यस्य विशेषः, यतो न द्रव्यक्षेत्रकालभावपर्यायदेशसंयोगभेदरहितं वस्तु केनचित् प्रत्यक्षाद्यन्यतमप्रमाणेनावगन्तुं शक्यम् , न च प्रमाणागोचरस्य सद्व्यवहारयोग्यतेति तदतदात्मकं तदभ्युपेयम् । न ह्येकान्ततस्तदात्मकं द्रव्यादिभेदभिन्नं व्यतिरिक्तञ्च प्रमाणतस्तन्निरूपयितुं शक्यम् द्रव्यादिव्यति. रिकस्य शशशृङ्गवत् कुतश्चित् प्रमाणादप्रतीतेः, न हि ततो द्रव्यादीनां भेदेऽपि समवाय- 25 सम्बन्धात्तत्सम्बन्धिताप्रसङ्गः, सम्बन्धिभेदेन भेदाभेदकल्पनाद्वयानतिवृत्तेः, भेदपक्षे सम. पायानेकत्वप्रसङ्गः, सम्बन्धिभेदेन भेदात, संयोगवदनित्यताप्रसङ्गाच्च । अभेदकल्पे तु सम्बन्धिसङ्करप्रसङ्गः, न चैवमस्ति, छत्रदण्डकुण्डलादिसम्बन्धविशेषविशिष्टदेवदत्तादेरिष
"Aho Shrutgyanam'