Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितत्वसोपाने
[ सप्तत्रिंशम् एतदेवाह-~
एयन्तासम्भूयं सन्भूयमणिच्छियं च वयकमाणो । लोइयपरिच्छियाणं वयणिजपहे पडइ वादी ॥ ५९॥ एकान्तासद्भुतं सद्भूतमनिश्चितञ्च बदन् ।
लौकिकपरीक्षकाणां वचनीयपक्षे पतति वादी ॥ छाया ॥ एकान्तेति, असत्यमेकान्तेनासद्भूतं सद्भूतमप्यनिश्चितं वदन वादी लौकिकानां परीक्षकाणाञ्च वचनीयमार्ग पतति । अनेकान्तात्मकाद्धि हेतोः तथाभूतमेव साध्यधर्मिणं साधयन् वादी सद्वादी भवेदिति तथैव साध्याविनाभूतो हेतुर्धर्मिणि तेन प्रदर्शनीयः, तन्मात्रादेव
साध्यप्रतिपत्तेः सपक्षविपक्षयोः सदसत्त्वे नावश्यं प्रदर्शनीये । तथापि तत्र तयोविद्यमानतयाऽ 10 वश्यं प्रदर्शनीयत्वे ज्ञातत्वादीनामप्यपरधर्माणां तत्र सतां प्रदर्शनीयता स्यात् । यदि
सामर्थ्यात्ते प्रतीयन्त एवेति न प्रदान्ते तदाऽन्वयव्यतिरेकावपि तत एव नावश्यं प्रदर्शनीयौ, अत एव दृष्टान्तोऽपि नावश्यं वाच्यः, तस्य साधर्म्यवैधर्म्यप्रदर्शनपरत्वात् । उपनयनिगमनयोस्तु दूरापास्तता, तदन्तरेणापि साध्याविनाभूतहेतुप्रदर्शनमात्रात् साध्यप्रतिपत्यु.
त्पत्तेः, अन्यथा तदयोगान् । हेतोबैलक्षण्य प्रदर्शनवादिनस्तु निरंशे लक्षण्यविरोधानिरं15 शवस्त्वभ्युपगमविरोधः स्यात् , परिकल्पितस्वरूपत्रैरूप्याभ्युपगमोऽप्यसङ्गतः, परिकल्पि
तस्य परमार्थसत्त्वे तदोषानतिवृत्तेः, अपरमार्थसत्त्वे तु तल्लक्षणत्वायोगः, असतः सल्लक्षण. त्वविरोधात् , न हि कल्पनाव्यवस्थापितलक्षणभेदाल्लक्ष्यभेदो युक्त इति लिङ्गस्य निरंशस्वभावस्य किश्चिद्रूपं वाच्यम , न च साधादिव्यतिरेकेण तस्य स्वरूपं प्रदर्शयितुं शक्यत
इति तस्य निःस्वभावताप्रसक्तिः । न चैकलक्षणहेतुवादिनोऽप्यनेकान्तात्मकवस्त्वभ्यु. 20 पगमादर्शनव्याघात इति वाच्यम् , प्रयोगनियम एवैकलक्षणो हेतुरित्यभिधानात, न च
स्वभावनियमे तथाभूतस्य शशशृङ्गादेरिव निःस्वभावत्वम , गमकताङ्गनिरूपणकलक्षणो हेतुरिति व्यवस्थापितत्वात् । न चैकान्तवादिना प्रतिबन्धग्रहणमपि युक्तिसङ्गतम् , अविचलितस्वरूपे आत्मनि ज्ञानपौर्वापर्याभावात् , प्रतिक्षणध्वंसिन्यप्युभयग्रहणानुवृत्तकचैतन्य.
स्याभावात् , कारणस्वरूपग्राहिणा ज्ञानेन कार्यस्य तत्स्वरूपग्राहिणा च कारणस्य ग्रहणासम्भ25 वात् , एकेन च द्वयोरग्रहणे कार्यकारणभावादिप्रतिबन्धग्रहणायोगात् । न च कार्यानुभवान
न्तरभाविस्मरणेन कार्यकारणभावोऽनुसन्धीयत इति वक्तव्यम , अनुभूत एव स्मरणोदयेन प्रतिबन्धस्योभयनिष्ठस्य केनचिदननुभवात , उभयस्य पूर्वापरकालभावित्वेन एकेनाग्रहणात् , न वा स्मरणस्य कार्यानुभवो जनकः, तदनन्तरमेव स्मरणस्याभावात् , नापि क्षणिकैकान्तवादे कार्यकारणभावः सम्भवतीत्युक्तमेव, सन्तानादिकल्पनापि नात्रोपयोगिनी । स्मरणकाले
"Aho Shrutgyanam"

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420