Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 383
________________ सोपानम् । सन्मार्गप्रदर्शनम् । अथ सन्मार्गप्रदर्शनम् । सामान्य विशेषयोः स्वरूपं परस्परविविक्तमनूच निराकरोति दवट्टियवत्तव्वं सामपणं पज्जवस्स य विसेसो। एए समोवणीआ विभजवायं विसेसिंति ! ५७ ॥ द्रव्याथिकवक्तव्यं सामान्य पर्यवस्य च विशेषः । एती समुपनीती विभज्यवादं विशेषयतः ॥ छाया ॥ द्रव्यार्थिकेति, द्रव्यास्तिकस्य वाच्यं विशेषनिरपेक्षं सामान्यम् , पर्यायास्तिकस्य चानु स्यूताकारविविक्तो विशेषो वाच्यः, एतौ सामान्य विशेषावन्योन्यनिरपेक्षावेकैकरूपतया परस्परप्राधान्येन वा प्रदर्शितौ सत्यस्वरूपमनेकान्तवादमतिशयाते, असत्यरूपतया ततस्तावतिशयं लभेते इति यावत् , विशेष साध्येऽनुगमाभावतः सामान्ये साध्ये सिद्धसाधनात्साध. 10 नवैफल्यतः प्रधानोभयसाध्ये उभयदोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतस्साध्यत्वायोगात् । तस्माद्विवादास्पदीभूतसामान्यविशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिणि अन्योन्यानुविद्धसाधर्म्यवैधय॑स्वभावद्वयात्मकैकहेतुप्रदर्शनतो नैकान्तवादपक्षोक्तदोषावकाशः, अत. एव गाथापश्चार्द्धन एतौ सामान्यविशेषौ समुपनीतौ परस्परसव्यपेक्षतया स्यात्पदप्रयोगतो धर्मिण्यवस्थापितो विभज्यवादमेकान्तवादलक्षणं विशेषयतो निराकुरुतः, एवमेव 15 तयोरात्मलाभात्, अन्यथाऽनुमानविषयस्योक्तन्यायतोऽसत्त्वादित्यपि दर्शितम् ।। ५७ ॥ यत्रानुमानविषयतयाऽभ्युपगम्यमाने साध्ये दूषणवादिनोऽत्र काश एव न भवति तदेव साध्यं हेतुविषयतयाऽभ्युपगन्तव्यमिति दर्शयति-- हेउविसओवणीयं जह वणिज परो नियत्तइ । जइ तं तहा पुरिल्लो दाइंतो केण जीव्वंतो ।। ५८ ॥ हेतुविषयोपनीतं यथा वचनीयं परो निवर्तयति । यदि तत्तथा पुरिल्लोऽदर्शयिष्यत केनाजेष्यत ॥ छाया ॥ हेविति, हेतुविषयतयोपदर्शितं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना अनित्यः शब्द इत्येवं यथा परो निवर्त्तयति, सिद्धसाध्यताननुगमदोषाधुपन्यासेनैकान्तवचनीयस्य तदितर. धर्माननुषक्तस्याने कदोषदुष्टतया निवर्तयितुं शक्यत्वात् । यदि तदेव स्याच्छब्दयोजनया 25 द्वितीयधर्माकान्तं पुरिल्लः-पूर्वपक्षवादी अदर्शयिष्यत ततोऽसौ नैव केनचिदजेष्यत, जितश्वासौ तथाभूतस्य साध्यधर्मिणोऽप्रदर्शनात् प्रदर्शितस्थ चैकान्तरूपस्यासत्त्वात् , तत्प्रदर्शकोऽ सत्यवादितया निग्रहाहः ॥ ५८ ॥ 20 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420