Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितरवसोपाने
[ पदत्रंशम्
स्वभावान्तरानुत्पादे च तदयोगात्, तथाभ्युपगमे च क्षणिकताप्रसक्तेः । न च स्वभावान्तरस्योपजायमानस्य ततो भेदा, सम्बन्धासिद्धितः तत्सद्भावेऽपि प्राग्वत्तस्य स्वावभासिज्ञानजननायोगान्न तत्प्रतिभास: स्यात्, तथा च सामान्यस्य व्यक्तिभ्यो भेदेनाप्रतिभासमानश्या सिद्धत्वात्कथं हेतुत्वम् । किञ्च प्रतिव्यक्ति सामान्यस्य परिसमाप्तत्वा5 भ्युपगमादेकस्यां व्यक्तौ विनिवेशित स्वरूपस्य तदैव व्यक्तयन्तरे वृत्त्यनुपपत्तेस्तदनुरूपप्रत्ययस्य तन्त्रासम्भवादसाधारणता च हेतोः स्यात् । यदि चासाधारणरूपा व्यक्तयः स्वरूपतस्तदा परसामान्ययोगादपि न साधारणरूपतां प्रतिपद्यन्त इति व्यर्था सामान्यप्रकल्पना, स्वतोऽसाधारणस्यान्ययोगादपि साधारणरूपत्वानुपपत्तेः, स्वतस्तद्रूपत्वेऽपि निष्फला सामान्यप्रकल्पनेति व्यक्तिव्यतिरिक्तस्य सामान्यस्याभावाद सिद्धस्तलक्षणो हेतुरिति कथं ततः 10 साध्यसिद्धिः । अथ व्यक्त्यव्यतिरिक्तं सामान्यं हेतुस्तदप्य संगतमेव व्यक्तयव्यतिरिक्तस्य व्यक्तिस्त्ररूपवद्व्यक्त्तयन्तराननुगमात् सामान्यरूपतानुपपत्तेः, व्यक्तयन्तरसाधारणस्यैव वस्तुनः सामान्यमित्यभिधानात्, तत्साधारणत्वे वा न तस्य व्यक्तिस्वरूपाव्यतिरिच्यमानमूर्त्तिरूपता, सामान्यरूपतया भेदाव्यतिरिच्यमानस्वरूपस्य विरोधात्, तन्न व्यक्तयव्यतिरिक्तमपि सामान्यं हेतुः, व्यक्तिस्वरूपवदसाधारणत्वेन गमकत्वायोगात्, अत एव न 15 व्यक्तिरूपमपि हेतु:, न चोभयं परस्पराननुविद्धं हेतु:, उभयदोषप्रसङ्गात् । न चानुभयमन्योन्यव्यवच्छेदरूपाणामेकाभावे द्वितीयविधानादनुभयस्यासत्त्वेन हेतुत्वायोगात् । बुद्धिप्रकल्पि तच्च सामान्य मवस्तुरूपत्वात्साध्ये नाप्रतिबद्धत्वादसिद्धत्वाच्च न हेतु:, तस्मात् पदार्थान्तरानुवृत्तव्यावृत्तरूपमात्मानं बिभ्रदेकमेव पदार्थस्वरूपं प्रतिपत्तुर्भेदाभेदप्रत्ययप्रसूतिनिबन्धनं हेतुत्वेनोपादीयमानं तथाभूतसाध्यसिद्धिनिबन्धनमभ्युपगन्तव्यम् । न च यदेव रूपं रूपा - 20 न्तराद्र्यावर्त्तते तदेव कथमनुवृत्तिमासादयति, यच्चानुवर्त्तते तत् कथं व्यावृत्तिरूपतामा - त्मसात्करोतीति वक्तव्यम्, भेदाभेदरूपतयाऽध्यक्षतः प्रतीयमाने वस्तुस्वरूपे विरोधासिद्धेः तस्मादेकान्तेन भिन्नसामान्यविशेषवादौ द्वावप्यसद्वादाविति सिद्धम् ॥ ५६ ॥
: 116:
25
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वर पट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितत्त्व सोपाने हेत्वाभासविमर्शनं नाम षट्त्रिंशं सोपानम् ॥
१ एकस्यां व्यक्तौ सर्वात्मना तस्य सद्भावादिति भावः ।
,
"Aho Shrutgyanam"

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420