Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 380
________________ सम्मतितस्वसोपाने [ षत्रिंशम् हेतुविषयबाधकत्वम्, स्वार्थासम्भवे तयोरभाव इति चेत्, हेतावपि सति त्रैरूप्ये तत्समानमित्सावपि तयोर्विषये बाधकः स्यात्, दृश्यते हि चन्द्रार्कादिस्थैर्यग्राह्यध्यक्ष देशान्तरप्राप्तिलिङ्गप्रभवतद्वत्यनुमानेन बाध्यमानम् । अथ तत्स्थैर्यग्राह्यध्यक्षस्य तदाभासत्वाद्वाध्यत्वं तर्हि एकशाखाप्रभवत्वानुमानस्यापि तदाभासत्वाद्वाध्यत्वमित्यभ्युपगन्तव्यम् । न चैवमस्त्विति 5 वक्तव्यम्, तस्य हि तदाभासत्वं किमध्यक्षबाध्यत्वात् उत त्रैरूप्यवैकल्यात्, नाद्यः तदाभासत्वेऽध्यक्ष बाध्यत्वं ततश्च तदाभासत्वमितीतरेतराश्रयदोषप्रसङ्गात्, एका सिद्धावन्यतराप्रसिद्धेः । नापि द्वितीयः, त्रैरूप्यसद्भावस्य तत्र परेणाभ्युपगमात्, अनभ्युपगमे वा तत एव तस्यागमकत्वोपपत्तेरध्यक्ष बाधाभ्युपगमवैयर्थ्यम् । न चाबाधितविषयत्वं हेतुलक्षणमुपपन्नम्, " रूपयन्निश्चितस्यैव तस्य गमकत्वाङ्गतोपपत्तेः न च तस्य निश्चयः सम्भवति, स्वसम्बन्धिनोऽ 10 बाधितत्वनिश्वयस्य तत्कालभाविनोऽसम्यगनुमानेऽपि सद्भावात्, उत्तरकालभाविनोऽसिद्धत्वात्, सर्वसम्बन्धिनस्तादात्विकस्योत्तरकालभाविनश्चासिद्धत्वात् न ह्यग्शा सर्वत्र सर्वदा सर्वेषामत्र बाधकस्याभाव इति निश्चेतुं शक्यम्, तन्निश्चयनिबन्धनस्यासत्त्वात्, नानुपलम्भस्तन्निबन्धनः, सर्वसम्बन्धिनस्तस्यासिद्धत्वात्, आत्मसम्बन्धिनोऽनैकान्तिकत्वात्, न संवादस्तन्निबन्धनः, प्रागनुमानप्रवृत्तेस्तस्यासिद्धेः उत्तरकालं तत्सिद्ध्यभ्युपगमेऽन्योन्या15 श्रयदोषप्रसक्तेः, अनुमानात् प्रवृत्तौ संवादनिश्चयः, ततश्चाबाधितत्वावगमेऽनुमानप्रवृत्तिरिति । न चाविनाभावनिश्चयादष्यबाधितविषयत्वनिश्चयः, पञ्चलक्षणयोगिन्यविनाभावपरिसमाप्तिवादिनामवाधितविषयत्वानिश्चये ऽविनाभावनिश्चयस्यैवासम्भवात् यदि च प्रत्यक्षागमत्राधितकर्म निर्देशानन्तरप्रयुक्तस्यैव कालात्ययापदिष्टत्वं तर्हि मूर्खोऽयं देवदत्तः, त्वत्पुत्रत्वात्, उभयाभिमतत्वत्पुत्रवदित्यस्यापि गमकता स्यात्, न हि सकलशास्त्र व्याख्यातृत्व लिङ्गज20 नितानुमानबाधितविषयत्वमन्तरेणान्यदध्यक्ष बाधित विषयत्वमागमबाधितविषयत्वं वाङ्गमकतानिबन्धनमस्यास्ति । न चानुमानस्य तुल्यबलत्वान्नानुमानं प्रति बाधकता सम्भविनीति वक्तव्यम्, निश्चित प्रतिबन्धलिङ्गसमुत्थस्यानुमानस्यानिश्चित प्रतिबन्धलिङ्गसमुत्थेनातुल्यबलस्वात् । अत एव न साधर्म्यमात्राद्धेतुर्गमकः, अपि त्वाक्षिप्तव्यतिरेकात् साधर्म्यविशेषात्, नापि व्यतिरेकमात्रात् किन्त्वङ्गीकृतान्वयात्तद्विशेषात्, न वा परस्पराननुविद्धोभयमात्रादपि, किन्तु परस्परस्वरूपाजहद्वृत्तिसाधर्म्य वैधर्म्यरूपात् न च प्रकृतहेतौ प्रतिबन्धनिश्चायक प्रमाणनिबन्धनं त्रैरूप्यं निश्चितम् तदभावादेवास्य हेत्वाभासत्वम्, न पुनरसत्प्रतिपक्षत्वा बाधितविषयत्वापररूपविरहात् । यदा च पक्षधर्मत्वाद्यनेक वास्तव रूपात्मकमेकं 25 ३ ३२८ १ प्रत्यक्षागमयोः स्वप्रतिपाद्यविषयविरहे सति असम्भवः, अनुभूयेते च तावतस्तद्विषयोऽवश्यम्भावी हेतुप्रतिपाद्य विषयोऽतो बाधितो भवतीति तयोर्बाधकत्वमिति भावः ॥ " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420