Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 379
________________ सोपानम् ] स्वाभाविमर्शनम् । : ३५७ : स्यागमकता, अथान्यतरस्यात्र स्वसाध्याविनाभावविकलता तर्हि तत एव तस्यागमकतेति किमसत्प्रतिपक्षतारूपप्रतिपादनप्रयासेन । किञ्च नित्यधर्मानुपलब्धेः प्रसज्यप्रतिषेधरूपत्वे तुच्छस्यानुपलब्धिमात्रस्य साध्यासाधकत्वम्, पर्युदासरूपत्वेऽनित्य धर्मोपलब्धिरेव हेतुरिति शब्दे तस्य सिद्धत्वे कथं नानित्यतासिद्धिः, चिन्तासम्बन्धिपुरुष प्रयुक्तत्वात्तस्य तत्रानिश्चि तत्वे वादिनं प्रति सन्दिग्धासिद्धो हेतुः स्यात्, प्रतिवादिनस्तु स्वरूपासिद्ध एव तत्र 5 नित्यधर्मोपलब्धेस्तस्य सिद्धेः । न चोभयानुपलब्धिनिबन्धना यदा द्वयोरपि चिन्ता तदैकदेशोपलब्धेरन्यतरेण हेतुत्वेनोपादाने कथं चिन्तासम्बन्ध्येव द्वितीयस्तस्यासिद्धतां वक्तुं पारयतीति वाच्यम्, द्वितीयस्य संशयापन्नत्वेन तत्रासिद्धतोद्भावने सामर्थ्याभावे प्रथमोऽपि संशयितत्वादेव तस्य हेतुतामभिधातुं शक्तो न भवेत्, अन्यथा असिद्धतामप्यभिदध्यात्, भ्रान्तेरुभयत्राविशेषात्, यदुक्तं साधनकाले नित्यधर्मानुपलब्धिरनित्यपक्ष एव वर्त्तते न विपक्ष इति तन्न सङ्गतम्, विपक्षतोऽस्यैकान्तेन व्यावृत्तौ पक्षधर्मत्वे च स्वसाध्यस्यैव साधकत्वात, अन्योन्यव्यवच्छेद रूपाणामेकव्यवच्छेदेनापरत्र वृत्तिनिश्चये गत्यन्तराभावात्, न हि योऽनित्यपक्ष एव वर्त्तमानो निश्चितो वस्तुधर्मः स तन्न साधयतीति वक्तुं युक्तम्, अथ द्वितीयोऽपि वस्तुधर्मस्तत्र तथैव निश्चितः, न, परस्परविरुद्धधर्मयोस्तद विनाभूतयोर्वा धर्मिण्येकत्रायोगात्, योगे वा नित्यानित्यत्वयोः शब्दाख्ये धर्मिण्येकदा सद्भावादनेकान्तरूपवस्तु- 15 सद्भावोऽभ्युपगतः स्यात्, तदन्तरेण तद्धेत्वोः स्वसाध्याविनाभूतयोस्तत्रायोगात् । अथ द्वयोस्तुल्यबलयोरेकत्र प्रवृत्तौ परस्परविषयप्रतिबन्धान्न स्वसाध्यगमकत्वमिति चेन्न वसा to विभूतयोस्तयोर्धर्मिण्युपलब्धौ स्वसाध्यसाधकत्वावश्यम्भावेन परस्परविषयप्रतिवन्धासम्भवात् तत्प्रतिबन्धो हि तयोस्तथाभूतयोस्तत्राप्रवृत्तिः सा च त्रैरूप्याभ्युपगमे विरोधादयुक्ता, भावाभावयोः परस्परपरिहारस्थितिलक्षणतया एकत्रायोगात्, अथात एवान्यतरस्य 20 तोवेति चेन्न, अनुमानस्यानुमानान्तरेण बाधायोगात्, तयोर्हि तुल्यबलत्वे एकस्य बाधकत्वमपरस्य च बाध्यत्वमिति विशेषानुपपत्तिः, पक्षधर्मत्वाभावादिरूप विशेषस्याभ्युपगमे तत एवैकस्य दुष्टत्वान्न किञ्चिदनुमानबाधया । तयोरतुल्यबलत्वे तस्य च पक्षधर्मत्वादिभावाभावकृतत्वेऽप्ययमेव दोषः, तस्यानुमानाबाबाजनितत्वन्त्वद्याप्यसिद्धम्, तस्यैव विचार्य - माणत्वात्, तथा च त्रैरूप्याद्वयोस्तुल्यत्वे एकस्य बाधकत्वमपरस्य बाध्यत्वमिति व्यवस्थापयि.तुमशक्यत्वान्नानुमानबाधाकृतमतुल्यबलत्वमिति न प्रकरणसमो हेत्वाभासः सम्भवति । कालात्ययापदिष्टस्य तु लक्षणमसङ्गतमेव, न हि प्रमाणप्रसिद्धत्रैरूप्यसद्भावे हेतोर्विषयबाधा सम्भविनी, तयोर्विरोधात् । यतः साध्यसद्भाव एव हेतोर्धर्मिणि सद्भावत्रैरूप्यम्, तदाभाव एव च तत्र सद्भावो बाधा, भावाभावयोश्चैकत्रैकस्य विरोधः । किञ्चाध्यक्षागमयोः कुतो 25 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420