Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 377
________________ सोपानम् हेत्वाभासविमर्शनम् । तदैवान्येन स्वसाध्यसाधनाय हेतोरभिधानात् । न चोभयवृत्तिहेतुरनैकान्तिकः, तथा च नित्यत्वानित्यत्वैकान्तविपर्ययेणाप्यस्या अन्यतरानुपलब्धेः प्रवृत्तेरनैकान्तिकता भवेन्न प्रकरणसम इति वाच्यम् , यत्र हि पक्षसपक्षविपक्षाणां तुल्यो धर्मों हेतुत्वेनोपादीयते तत्र संशयहेतुतासाधा. रणत्वेन तस्य विरुद्धविशेषानुस्मारकत्वात् , न तु प्रकृत एवंविधः, यतो नित्यधर्मानुपलब्धेरनित्य एव भावः, न नित्ये, एवमनित्यधर्मानुपलब्धेर्नित्य एव भावो नानित्ये, एवञ्चैकत्र साध्ये 5 विपक्षव्यावृत्तेः प्रकरणसमता नानैकान्तिकता, पक्षद्वयवृत्तितया तस्याभावात् । ननु यद्ययं पक्षद्वये वर्त्तते तदा साधारणानकान्तिकः, अथ न प्रवर्त्तते कथमयं पक्षद्वयसाधकःस्यात् , अतद्वृत्तरतत्साधकत्वान्मैवम् , पक्षद्वये प्रकृतस्य वृत्त्यभ्युपगमात् , तथाहि साधनकालेऽनित्यपक्ष एव नित्यधर्मानुपलब्धिर्वर्तते न नित्ये, यदापि नित्यत्वं साध्यं तदापि नित्यपक्ष एवानित्यधर्मानुपलब्धिर्वर्तते नानित्ये, ततश्च सपक्ष एवं प्रकरणसमस्य वृत्तिः, सपक्षविपक्षयोश्चा- 10 नैकान्तिकस्य साध्यापेक्षया च पक्षसपक्षविपक्षाणां व्यवहारः नान्यथा, तेन साध्यद्वयवृत्तिरुभयसाध्यसपक्षवृत्तिश्च प्रकरणसमः, न तु कदाचित् साध्यापेक्षया विपक्षवृत्तिः, अनैकान्तिकस्तु विपक्षवृत्तिरपीत्यस्मादस्य भेदः । न च रूपत्रययोगेऽप्यस्य हेतुत्वम् , सप्रति. पक्षत्वात् , यस्य तु मते प्रतिबन्धपरिसमाप्ती रूपत्रययोगे तेन प्रकरणसमस्य नाहेतुत्वमुपदशयितुं शक्यम् । न चास्य कालात्ययापदिष्टत्वम् , अबाधित विषयत्वात् , ययोर्हि प्रकरण. 18 चिन्ता तयोरयं हेतुः, न च तौ सन्दिग्धत्वाद्वाधामस्योपदर्शयितुं क्षमौ । न च हेतुद्वयसनिपातादेकत्र धर्मिणि संशयोत्पत्तेस्तजनकत्वेनास्यानैकान्तिकता, संशयहेतुत्वेनानैन्तिकत्वाभावात्, इन्द्रियसन्निकर्षदेरपि तथात्यापत्तेः, मैवम्, असिद्धादिव्यतिरेकेणान्यस्य प्रकरणसमादेहेत्वाभासत्वायोगात् । यचोदाहरणं तत्र प्रदर्शितं तद्यद्यनुपलभ्यमाननित्यधर्मकस्वं न शब्दे सिद्धं तरसिद्धमेव, पक्षवृत्तित्वस्यासिद्धेः, यदि सिद्धं तदा तद्यदिसाध्यधर्मिणि 30 तर्हि साध्यवत्येव धर्मिणि तस्य सद्भावसिद्धेः कथमगमकता, न हि साध्यधर्ममन्त. रेण धर्मिण्यभवनं विहायान्यद्धेतोरविनाभावित्वम् , तच्चेदस्ति कथं न गमकता, तस्या अविनामावनिबन्धनत्वात् । अथ साध्यधर्मविकले तत् सिद्धं तदा विरुद्ध एव हेतुः, विपक्ष एव वर्तमानत्वात् । अथ सन्दिग्धसाध्यधर्मवति वर्तते तदाऽनैकान्तिकः, सन्दिग्धविपक्षव्यावृत्तिकत्वात् । ननु साध्यधर्मिव्यतिरिक्त धर्म्यन्तरे यस्य साध्याभाव एव दर्शनं स विरुद्धः, 25 यस्य च तदभावेऽप्यसावनैकान्तिकः, न हि धर्मिण एव विपक्षता, तस्य हि विपक्षत्वे सर्वस्य हेतोरहेतुताप्रसङ्गो यतः साध्यसिद्धेः प्राक् साध्यधर्मी सर्वदा सन्दिग्ध एव साध्यधर्मसदसस्वाश्रयत्वात् , अन्यथा साध्याभावे निश्चिते तन्निश्चायकप्रमाणेन बाधितत्वाद्धेतोरप्रवृत्तिरेव स्यात् , प्रत्यक्षादिप्रमाणेन च साध्यधर्मयुक्ततया धर्मिणो निश्चये हेतोयर्थ्यप्रसक्तिः, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420