Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 378
________________ : ३२६ : सम्मतितव सोपाने [ पदस्त्रिंशम् प्रत्यक्षादित एव हेतुसाध्यस्य सिद्धेः तस्मात् सन्दिग्धसाध्यधर्माधर्मी हेतोराश्रयत्वेन एष्टव्य इति, यदि तु तत्र वर्त्तमानो हेतुरनैकान्तिको भवेत्तर्हि धूमादिरपि स्यात्, सन्दिग्धव्यतिरेकित्वात् यथा च विपक्षवृत्तित्वेन निश्चितो न गमकस्तथा यदि संदिग्धव्यतिरेक्यपि तर्ह्यनुमानप्रामाण्यं परित्यक्तमेव भवेत्, तस्मादनुमेयव्यतिरिक्ते साध्यधर्मतदभाववति 5 वर्त्तमानो हेतुरनैकान्तिकः, साध्याभाववत्येव वर्त्तमानः पक्षधर्मत्वे सति विरुद्ध इत्यभ्युपगन्तव्यम् । यश्च विपक्षाद्वयावृत्तः सपक्षे चानुगतः पक्षधर्मः स स्वसाभ्यं गमयति, प्रकृतस्य विपक्षत्र्यावृत्तत्वेऽपि न स्वसाध्यसाधकत्वं प्रतिबन्धस्य स्वसाध्येनानिश्चयात्, तदनिश्चयश्च न विपक्षवृत्तित्वेन, किन्तु प्रकरणसमत्वेन, एकशाखाप्रभवत्वादेस्तु कालात्यया पदिष्टत्वेनेति चेत्, मैत्रम् धर्मिव्यतिरिक्तधर्म्यन्तरे स्वसाध्येन हेतोः प्रतिबन्धाभ्युपगमे 10 धर्मिणि प्रकृते उपादीयमानेनापि हेतुना साध्यासिद्धेः साध्यधर्मिणि माध्यमन्तरेणापि हेतोः सद्भावाभ्युपगमात्, तद्व्यतिरिक्तधर्म्यन्तर एव साध्येन तस्य प्रतिबन्धग्रहणात्, नान्यत्र स्वाध्यप्रतिबद्धत्वेन निश्चतोऽन्यत्र साध्यं गमयत्यतिप्रसङ्गात् । न च साध्यधर्मिण्यपि साध्यधर्मान्त्रितत्वेन हेतोरन्वयप्रदर्शनकाल एव यदि निश्वयस्तदा पूर्वमेव तत्र साध्यधर्मस्य निश्चयात् पक्षधर्मताग्रहणं व्यर्थमिति वाच्यम्, यतः प्रतिबंधप्रसाध 15 केन प्रमाणेन सर्वोपसंहारेण साधनधर्मः साध्यधर्माभावे कचिदपि न भवतीति सामान्येन प्रतिबन्धनिश्चये पक्षधर्मताग्रहणकाले यत्रैव धर्मिण्युपलभ्यते हेतुस्तत्रैव साध्यं निश्चाययafa पक्षधर्मताग्रहणस्य विशेषविषयप्रतिपत्तिनिबन्धनत्वान्नानुमानस्य वैयर्थ्यम्, न हि विशिष्टधर्मिण्युपलभ्यमानो हेतुस्तद्गतसाध्यमन्तरेणोपपत्तिमान्, अन्यथा तस्य स्वसाध्यव्यातत्वायोगात् । न चैवं तत्र हेतूपलम्भेऽपि साध्यविषयेऽनिश्चयः येन संदिग्धव्यतिरेकिता 20 हेतोः भवेत्, निश्चितस्त्रसाध्याविना भूत हेतूपलम्भस्यैव साध्यधर्मिणि साध्यप्रतिपत्तिरूपस्वात्, न हि तत्र तथाभूतहेतुनिश्चयादपरस्तस्य स्वसाध्यप्रतिपादनव्यापारः, अत एव निश्चितप्रतिबन्धैकहेतुसद्भावे धर्मिणि न विपरीतसाध्योपस्थापकस्य तल्लक्षणयोगिनो हेत्वन्तरस्य सद्भावः, . तयोर्द्वयोरपि स्वसाध्याविनाभूतत्वात् नित्यानित्यत्वयोश्चैकत्रैकदा एकान्तवादिमते विरोधेनासम्भवात् तद्व्यवस्थापक हेत्वोरपि असम्भवस्य न्यायप्राप्तत्वात्, सम्भवे वा 25 तयो: स्वसाध्याविनाभूतत्वात् नित्यानित्यत्वधर्मयुक्तत्वं धर्मिणः स्यादिति कुतः प्रकरणसम १ साध्याभावे सति क्वचिदपि साधनं न भवतीति तर्केण सर्वोपसंहारेण व्याप्तिः सामान्यतः प्रतिपन्ना, तथाविवश्व हेतुर्यत्रैव धर्मिण्युपलभ्यते तत्रैव साध्यं साधयतीति पक्षधर्मताग्रहणकाले तद्ब्रहणस्य विशेषप्रतिपत्तिनिबन्धनत्वान्नानुमानवैयर्थ्यम् । एवंविधपक्षधर्मताग्रहणस्यैव च साध्यधर्मिणि साध्यप्रतिपत्तिरूपत्वम्, तस्मान्न पक्षधर्मताग्रहणोत्तरकालं परामर्शस्ततोऽनुमितिरिति नैयायिकाभिप्रायो युक्तियुक्तः, तथा विषहेतुनिचयादन्यस्य साध्यविज्ञानजनकस्य व्यापारस्यानुपलम्भादिति भावः ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420