________________
सोपानम्
हेत्वाभासविमर्शनम् । तदैवान्येन स्वसाध्यसाधनाय हेतोरभिधानात् । न चोभयवृत्तिहेतुरनैकान्तिकः, तथा च नित्यत्वानित्यत्वैकान्तविपर्ययेणाप्यस्या अन्यतरानुपलब्धेः प्रवृत्तेरनैकान्तिकता भवेन्न प्रकरणसम इति वाच्यम् , यत्र हि पक्षसपक्षविपक्षाणां तुल्यो धर्मों हेतुत्वेनोपादीयते तत्र संशयहेतुतासाधा. रणत्वेन तस्य विरुद्धविशेषानुस्मारकत्वात् , न तु प्रकृत एवंविधः, यतो नित्यधर्मानुपलब्धेरनित्य एव भावः, न नित्ये, एवमनित्यधर्मानुपलब्धेर्नित्य एव भावो नानित्ये, एवञ्चैकत्र साध्ये 5 विपक्षव्यावृत्तेः प्रकरणसमता नानैकान्तिकता, पक्षद्वयवृत्तितया तस्याभावात् । ननु यद्ययं पक्षद्वये वर्त्तते तदा साधारणानकान्तिकः, अथ न प्रवर्त्तते कथमयं पक्षद्वयसाधकःस्यात् , अतद्वृत्तरतत्साधकत्वान्मैवम् , पक्षद्वये प्रकृतस्य वृत्त्यभ्युपगमात् , तथाहि साधनकालेऽनित्यपक्ष एव नित्यधर्मानुपलब्धिर्वर्तते न नित्ये, यदापि नित्यत्वं साध्यं तदापि नित्यपक्ष एवानित्यधर्मानुपलब्धिर्वर्तते नानित्ये, ततश्च सपक्ष एवं प्रकरणसमस्य वृत्तिः, सपक्षविपक्षयोश्चा- 10 नैकान्तिकस्य साध्यापेक्षया च पक्षसपक्षविपक्षाणां व्यवहारः नान्यथा, तेन साध्यद्वयवृत्तिरुभयसाध्यसपक्षवृत्तिश्च प्रकरणसमः, न तु कदाचित् साध्यापेक्षया विपक्षवृत्तिः, अनैकान्तिकस्तु विपक्षवृत्तिरपीत्यस्मादस्य भेदः । न च रूपत्रययोगेऽप्यस्य हेतुत्वम् , सप्रति. पक्षत्वात् , यस्य तु मते प्रतिबन्धपरिसमाप्ती रूपत्रययोगे तेन प्रकरणसमस्य नाहेतुत्वमुपदशयितुं शक्यम् । न चास्य कालात्ययापदिष्टत्वम् , अबाधित विषयत्वात् , ययोर्हि प्रकरण. 18 चिन्ता तयोरयं हेतुः, न च तौ सन्दिग्धत्वाद्वाधामस्योपदर्शयितुं क्षमौ । न च हेतुद्वयसनिपातादेकत्र धर्मिणि संशयोत्पत्तेस्तजनकत्वेनास्यानैकान्तिकता, संशयहेतुत्वेनानैन्तिकत्वाभावात्, इन्द्रियसन्निकर्षदेरपि तथात्यापत्तेः, मैवम्, असिद्धादिव्यतिरेकेणान्यस्य प्रकरणसमादेहेत्वाभासत्वायोगात् । यचोदाहरणं तत्र प्रदर्शितं तद्यद्यनुपलभ्यमाननित्यधर्मकस्वं न शब्दे सिद्धं तरसिद्धमेव, पक्षवृत्तित्वस्यासिद्धेः, यदि सिद्धं तदा तद्यदिसाध्यधर्मिणि 30 तर्हि साध्यवत्येव धर्मिणि तस्य सद्भावसिद्धेः कथमगमकता, न हि साध्यधर्ममन्त. रेण धर्मिण्यभवनं विहायान्यद्धेतोरविनाभावित्वम् , तच्चेदस्ति कथं न गमकता, तस्या अविनामावनिबन्धनत्वात् । अथ साध्यधर्मविकले तत् सिद्धं तदा विरुद्ध एव हेतुः, विपक्ष एव वर्तमानत्वात् । अथ सन्दिग्धसाध्यधर्मवति वर्तते तदाऽनैकान्तिकः, सन्दिग्धविपक्षव्यावृत्तिकत्वात् । ननु साध्यधर्मिव्यतिरिक्त धर्म्यन्तरे यस्य साध्याभाव एव दर्शनं स विरुद्धः, 25 यस्य च तदभावेऽप्यसावनैकान्तिकः, न हि धर्मिण एव विपक्षता, तस्य हि विपक्षत्वे सर्वस्य हेतोरहेतुताप्रसङ्गो यतः साध्यसिद्धेः प्राक् साध्यधर्मी सर्वदा सन्दिग्ध एव साध्यधर्मसदसस्वाश्रयत्वात् , अन्यथा साध्याभावे निश्चिते तन्निश्चायकप्रमाणेन बाधितत्वाद्धेतोरप्रवृत्तिरेव स्यात् , प्रत्यक्षादिप्रमाणेन च साध्यधर्मयुक्ततया धर्मिणो निश्चये हेतोयर्थ्यप्रसक्तिः,
"Aho Shrutgyanam"