________________
: ३२४ :
सम्मतितत्त्व सोपाने
साहम्मउव्व अत्थं साहेज परो विहम्मओ वावि । अण्णोष्णं पडिकुट्ठा दोष्णवि एए असन्वाया ॥ ५६ ॥
5
साधर्म्यतो वार्थ साधयेत् परो वैधर्म्यतो वापि । अन्योन्यं प्रतिकुष्टौ द्वावप्येतावसद्वादौ || छाया ॥
साधर्म्यत इति, परो वैशेषिकादिः साधर्म्यतोऽर्थं साधयेत्, अन्वयिहेतुप्रदर्शनात्साध्यधर्मिणि विवक्षितं साध्यं यदि साधयेत् तदा तत्पुत्रत्वादेरपि गमकत्वं स्यात्, अन्वयमात्रस्य तत्रापि भावात्, अथ वैधर्म्यात् व्यतिरेकि हेतोर्यदि प्रकृतं साध्यं साधयेत्, वाशब्दस्य समुच्चयार्थत्वादुभाभ्यां वा तथापि तत्पुत्रत्वादेरेव गमकत्वप्रसक्तिः, श्यामत्वाभावे तत्पुत्रत्वादेरन्यत्र गौरपुरुषेऽभावात्, उभाभ्यामपि तत्साधनेऽत एव साध्यप्रसक्तिः स्यात्, 10 तथा सामान्यं नैकान्तवाद्युपन्यस्तहेतोः साधयितुं शक्यम्, केवलस्य तस्यासम्भवात्, अर्थक्रियाकारित्वविकलत्वाच्च, न विशेषः, तस्याननुयायित्वात् नाप्युभयम्, उभयदोषानतिवृत्तेः, न वाऽनुभयम्, तस्यासतो हेत्वव्यापकत्वेन साध्यत्वायोगात् तस्मात् परस्परप्रतिक्षिप्तौ द्वावप्येतौ सामान्यविशेषैकान्तौ असद्वादौ, इतरविनिर्मुक्तस्यैकस्य शशशृंगादेरिव साधयितुमशक्यत्वादिति । ननु तत्पुत्रत्वादेर्न साध्यसाधकता कालात्ययापदिष्टत्वादिदोषसद्भा 15 वातू, न, असिद्धबिरुद्धानैकान्तिक हेत्वाभासं विनान्यहेत्वाभासा सम्भवात् न च त्रैलक्षण्ययोगिनोऽसिद्धत्वादिहेत्वाभासता कृतकत्वादेरिवाऽनित्यत्वसाधने सम्भवति, अस्ति च भवदभिप्रायेण त्रैरूप्यं प्रकृते हेतौ । ननु वैरूप्यवादिनां स्यादयं दोषः पञ्चलक्षणहेतुत्रादिनान्तु प्रकरणसमादेर्हेत्वाभासत्वात्रै लक्षण्यसद्भावेऽपि असत्प्रतिपक्षत्वादेरसम्भवेन हेत्वाभासत्वसम्भवात्, यस्माद्धि प्रकरणचिन्ता स प्रकरणसमः, पक्षप्रतिपक्षौ प्रकरणम्, तस्य संशयात् प्रभृति 20 आनिश्चयादालोचनास्वभावा चिन्ता यतो भवति स एव तन्निश्वयार्थं प्रयुक्तः प्रकरणसमः, तथाहि अनित्यः शब्दो नित्यधर्मानुपलब्धेः अनुपलभ्यमाननित्यधर्मकं घटादि अनित्यं दृष्टम्, यत्पुनर्नित्यं न तदनुपलभ्यमाननित्यधर्मकम्, यथाऽऽत्मादि, एवं चिन्तासम्बन्धिपुरुषेण तत्त्वानुपलब्धेरे कदेशभूताया अन्यतरानुपलब्धेरनित्यत्वसिद्धौ साधनत्वेनोपन्यासे स द्वितीयश्चिन्तासम्बन्धी पुरुष आह, एवमनित्यत्वं साध्यते चेत्तर्हि नित्यः शब्दोऽनित्यधर्मानु25 पलब्धेः, अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टं यथा आत्मादि यत्तु न नित्यं तन्नानुपलभ्यमानानित्यधर्मकं यथा घटादीति नित्यतासिद्धिरपि भवेदित्येवमन्यतरानुपलब्धेरुभयपक्षसाधारणत्वात् प्रकरणानतिवृत्तेः हेत्वाभासत्वम् । न च निश्चितयोरेव पक्षप्रतिपक्ष परियesधिकारात् कथं चिन्तायुक्त एवं साधनोपन्यासं विदध्यादिति वक्तव्यम्, अन्यदा सन्देहेऽपि यदा चिन्तासम्बन्धी पुरुषः स्वहेतोः पक्षधर्मान्वयव्यतिरेकानव गच्छन् स्वसाध्यं निश्चिनोति
[ षट्त्रिंशम्
"Aho Shrutgyanam"