SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] हेत्वाभासविमर्शनम् । च स्वास्तित्वेनेवान्यभावास्तित्वेनापि तस्य भावात् सर्वभावसङ्कीर्णताप्रसक्तेः, स्वस्वरूपाव्यवस्थितेः खपुष्पवत् असत्त्वमेव स्यात् । हेतुदृष्टान्तदोषाश्च पूर्ववदनापि वाच्याः । 'छसम्मत्तरस ठाणाई' इति पाठे तु इतरधर्मापरिहारेण प्रवर्त्तमाना एते षट्पक्षाः सम्यक्त्वं प्रतिपद्यन्त इति व्याख्येयम् । न च स्यादस्त्यात्मा स्यानित्य इत्यादिप्रतिज्ञावाक्यमध्यक्षादिना प्रमाणेन बाध्यते, स्वपरभावाभावोभयात्मकभावावभासकाध्यक्षादिप्रमाणव्यतिरेकेणान्यथाभूतस्याध्यक्षादेरप्रतीतेः, 5 तेनानुमानाभ्युपगमस्ववचनलोकव्यवहारविरोधोऽपि न प्रतिज्ञायाः, अध्यक्षादिप्रमाणावसेये सदसदात्मके वस्तुनि कस्यचिद्विरोधस्यासम्भवात् , न चाप्रसिद्धविशेषणः पक्षः, लौकिकपरीक्षकाणां तथाभूतविशेषणस्याविप्रतिपत्त्या सर्वत्र प्रतीतेः, अन्यथा विशेषणव्यवहारस्योच्छेदप्रसङ्गात् , अन्यथाभूतस्य तस्य क्वचिदप्यसम्भवात् , तथाभूत विशेषणात्मकस्य धर्मिणः सर्वत्र प्रतीते प्रसिद्ध विशेष्यता दोषः । नाप्यप्रसिद्धोभयता दूषणम् , तथाभूतद्वयव्यतिरेकेणान्यस्यास- 10 त्वेन प्रमाणाविषयत्वात् । हेतुरपि नाप्रसिद्धः, तत्र तस्य सत्त्वप्रतीतेः, विपक्षे सत्त्वासम्भवान्नापि विरुद्धोऽनैकान्तिकत्वं वा । दृष्टान्तदोषा अपि साध्यादिविकलत्वादयो नात्र सम्भविनः, असिद्धत्वादिदोषवत्येव साधने तेषां भावात् । न चानुमानतोऽनेकान्तात्मकं वस्तु तद्वादिभिः प्रतीयते, अध्यक्षसिद्धत्वात् , यस्तु प्रतिपन्नेऽपि ततस्तस्मिन् विप्रतिपद्यते तं प्रति तप्रसिद्धेनैव न्यायेनानुमानोपन्यासेन विप्रतिपत्तिनिराकारणमात्रमेव विधीयत इति नाप्रसिद्ध. 15 विशेषणत्वादेर्दोषस्यावकाशः । प्रतिक्षणपरिणामपरभागादीनान्तु उत्तरविकाराग्दिर्शनान्यथानुपपत्त्यानुमाने नाध्यक्षादिबाधा, अस्मदाद्यध्यक्षस्य सर्वात्मना वस्तुप्रहणासामर्थ्यात् , स्फटिकादौ चार्वाग्भागपरभागयोरध्यक्षत एवैकदा प्रतिपत्तेने तस्यानुमानम् । न च स्थैर्यग्राह्यध्यक्षं प्रतिक्षणपरिणामानुमानेन विरुद्धयते, अस्य तदनुप्राहकत्वात् , कथंचित् प्रतिक्षणपरिणामस्य तत्प्रतीतस्यैवानुमानतोऽपि निश्चयात् ॥ ५५ ॥ 20 25 इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजय लब्धिसूरिणा सङ्कलिते सम्मतितत्वसोपाने आत्मनो मिथ्यात्वस्थानवर्णनं नाम पञ्चत्रिंशं सोपानम् ॥ - -- अथ हेत्वाभासविमर्शनम्। अनेकान्तव्यवच्छेदेन एकान्तावधारितधर्माधिकरणत्वेन धर्मिणं साधयन्नेकान्तवादी न साधर्म्यतः साधयितुं प्रभु पि वैधर्म्यत इत्याह "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy