________________
सम्मतितस्वसोपाने
[ पचविंशम् षड् मिथ्यात्वस्य स्थानानि, षण्णामप्येषां पक्षाणां मिथ्यात्वाधारतया व्यवस्थितेः, सथाहि एतानि नास्तित्वादिविशेषणानि साध्यधर्मिविशेषणतयोपादीयमानानि किं प्रतिपक्षव्युदासेनोपादीयन्ते, आहोस्वित् कथश्चित्तत्सङ्ग्रहेण, प्रथमपक्षे प्रत्यक्षविरोधः, स्वसंवेदनाध्यक्षतश्चैतन्यस्यात्मरूपस्य प्रतीतेः, कथञ्चित्तस्य परिणामिनित्यताप्रतीतेः, शरीरादिव्यापारतः 5 कर्तृत्वोपलब्धेः, स्वव्यापारनिर्वर्तित भक्तरूपादिभोक्तृत्वसंवेदनात्, पुद्गललक्षणविलक्षणतया
रागादिविविक्ततया च शमसुखरसावस्थायां कथञ्चित्तस्योपलब्धेः, स्वोत्कर्षतरतमादिभावतो रागाद्यपचयतरतमभावविधायिसम्यग्ज्ञानदर्शनादेरुपलम्भाच्च । अनुमानतोऽपि विरोधः तथाभूतज्ञानकार्यान्यथानुपपत्तितश्चैतन्यलक्षणस्यात्मनः सिद्धिःघटादिवत् रूपादिगुणतः, ज्ञान
स्वरूपगुणोपलम्भात् कथञ्चित्सदभिन्नस्यात्मलक्षणगुणिनः सिद्धेरिति कथं नानुमानविरोधः, 10 इतरधर्मनिरपेक्षधर्मलक्षणस्य विशेषणस्य तदाधारभूतस्य विशेष्यस्य चाप्रसिद्धेः अप्रसिद्धवि.
शेषण विशेष्योभयदोषैर्दुष्टश्च पक्षः । आत्मा इति वचनेन तत्सत्ताभिधानं नास्तीत्यनेन च तत्प्रतिषेधाभिधानमिति पदयोः प्रतिज्ञावाक्ये व्याघातो लोकविरोधश्च, तथाभूतविशेषणविशिष्टतया धर्मिणो लोकेन व्यवह्रियमाणत्वात् , स्ववचन विरोधश्च तत्प्रतिपादकवचनस्येतर
धर्मसापेक्षतया प्रवृत्तेः । हेतुरपीतरनिरपेक्ष कधर्मरूपोऽसिद्धः तथाभूतस्य तस्य कचिदनुप15 लब्धेः सर्वत्र तद्विपरीत एव भावात् विरुद्धश्च । दृष्टान्तश्च साध्यसाधनधर्मविकलः, तथा
भूतसाध्यसाधनधर्माधिकरणतया कस्यचिद्धर्मिणोऽप्रसिद्धः, तन्न प्रथमः पक्षः । नापि द्वितीयः, स्वाभ्युपगमविरोधप्रसङ्गात् , साधनवैफल्यापत्तेश्च, तथाभूतस्यानेकान्तरूपतयाऽस्माभिरप्य. भ्युपगमात्। तस्माद्यवस्थितमेतदेकान्तरूपतया षडप्येतानि मिथ्यात्वस्य स्थानानीति ॥५४॥
नैतान्येव स्थानानि किन्तूक्तवैपरीत्येनाप्येकान्तवादे तथैवेत्याह10 अत्धि अविणासधम्मो करेइ वेएइ अस्थि णिचाणं । ____ अत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥ ५५ ॥
अस्त्यविनाशधर्मा करोति वेदयतेऽस्ति निर्वाणम् ।
अस्ति च मोक्षोपायः पण्मिथ्यात्वस्य स्थानानि || छाया ॥ अस्तीति, अस्यात्मेति पक्षः नैयायिकादेर्वादिनः, स चाविनाशधयेषः कपिलमता. 25 नुसारिणः । कर्तभोक्तस्वभावोऽसाविति जैमिनेर्मतम् । तथाभूत एवासौ जडस्वरूप इत्यक्ष
पादकणभुमतानुसारिणः । अस्ति निर्वाणमस्ति च मोक्षोपाय इति नास्तिकयाज्ञिकव्यति. रिक्ताः पाखण्डिनः । एते चाभ्युपगमा एकान्ताभ्युपगमत्वान्मिध्यास्थानानि, एष्वपि पूर्ववद्विकल्पद्वयेऽपि तदोषानतिवृत्तेः एकान्तेन तदस्तित्वादेरध्यक्षानुमानाभ्यामप्रतीतेः तथाभ्युपगमे
"Aho Shrutgyanam"