Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
हेत्वाभासविमर्शनम् । च स्वास्तित्वेनेवान्यभावास्तित्वेनापि तस्य भावात् सर्वभावसङ्कीर्णताप्रसक्तेः, स्वस्वरूपाव्यवस्थितेः खपुष्पवत् असत्त्वमेव स्यात् । हेतुदृष्टान्तदोषाश्च पूर्ववदनापि वाच्याः । 'छसम्मत्तरस ठाणाई' इति पाठे तु इतरधर्मापरिहारेण प्रवर्त्तमाना एते षट्पक्षाः सम्यक्त्वं प्रतिपद्यन्त इति व्याख्येयम् । न च स्यादस्त्यात्मा स्यानित्य इत्यादिप्रतिज्ञावाक्यमध्यक्षादिना प्रमाणेन बाध्यते, स्वपरभावाभावोभयात्मकभावावभासकाध्यक्षादिप्रमाणव्यतिरेकेणान्यथाभूतस्याध्यक्षादेरप्रतीतेः, 5 तेनानुमानाभ्युपगमस्ववचनलोकव्यवहारविरोधोऽपि न प्रतिज्ञायाः, अध्यक्षादिप्रमाणावसेये सदसदात्मके वस्तुनि कस्यचिद्विरोधस्यासम्भवात् , न चाप्रसिद्धविशेषणः पक्षः, लौकिकपरीक्षकाणां तथाभूतविशेषणस्याविप्रतिपत्त्या सर्वत्र प्रतीतेः, अन्यथा विशेषणव्यवहारस्योच्छेदप्रसङ्गात् , अन्यथाभूतस्य तस्य क्वचिदप्यसम्भवात् , तथाभूत विशेषणात्मकस्य धर्मिणः सर्वत्र प्रतीते प्रसिद्ध विशेष्यता दोषः । नाप्यप्रसिद्धोभयता दूषणम् , तथाभूतद्वयव्यतिरेकेणान्यस्यास- 10 त्वेन प्रमाणाविषयत्वात् । हेतुरपि नाप्रसिद्धः, तत्र तस्य सत्त्वप्रतीतेः, विपक्षे सत्त्वासम्भवान्नापि विरुद्धोऽनैकान्तिकत्वं वा । दृष्टान्तदोषा अपि साध्यादिविकलत्वादयो नात्र सम्भविनः, असिद्धत्वादिदोषवत्येव साधने तेषां भावात् । न चानुमानतोऽनेकान्तात्मकं वस्तु तद्वादिभिः प्रतीयते, अध्यक्षसिद्धत्वात् , यस्तु प्रतिपन्नेऽपि ततस्तस्मिन् विप्रतिपद्यते तं प्रति तप्रसिद्धेनैव न्यायेनानुमानोपन्यासेन विप्रतिपत्तिनिराकारणमात्रमेव विधीयत इति नाप्रसिद्ध. 15 विशेषणत्वादेर्दोषस्यावकाशः । प्रतिक्षणपरिणामपरभागादीनान्तु उत्तरविकाराग्दिर्शनान्यथानुपपत्त्यानुमाने नाध्यक्षादिबाधा, अस्मदाद्यध्यक्षस्य सर्वात्मना वस्तुप्रहणासामर्थ्यात् , स्फटिकादौ चार्वाग्भागपरभागयोरध्यक्षत एवैकदा प्रतिपत्तेने तस्यानुमानम् । न च स्थैर्यग्राह्यध्यक्षं प्रतिक्षणपरिणामानुमानेन विरुद्धयते, अस्य तदनुप्राहकत्वात् , कथंचित् प्रतिक्षणपरिणामस्य तत्प्रतीतस्यैवानुमानतोऽपि निश्चयात् ॥ ५५ ॥
20
25
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजय
लब्धिसूरिणा सङ्कलिते सम्मतितत्वसोपाने आत्मनो मिथ्यात्वस्थानवर्णनं नाम पञ्चत्रिंशं सोपानम् ॥
- --
अथ हेत्वाभासविमर्शनम्। अनेकान्तव्यवच्छेदेन एकान्तावधारितधर्माधिकरणत्वेन धर्मिणं साधयन्नेकान्तवादी न साधर्म्यतः साधयितुं प्रभु पि वैधर्म्यत इत्याह
"Aho Shrutgyanam"

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420