Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानमू। आत्मनो मिथ्यात्वस्थानवर्णनम् ।
: ३११ न स्वकार्याणि युगपन्निवर्तयति तथा पुरुषोऽपीति वक्तव्यम् , स्वभावतस्तस्याप्रवृत्तः प्राणिभक्षणलाम्पट्येन हि तस्य प्रवृत्तिः न ह्यसौ नित्यैकस्वभावः, अपि तु स्वहेतुबलभावि कादाचिकापरापरशक्तिमानिति तद्भाविनः कार्यस्य क्रमप्रवृत्तिरुपपनैव । न चाबुद्धिपूर्वकमेवासौ जगन्निवर्त्तने प्रवर्त्तते न त्वनुकम्पादित इति युक्तम् , प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया प्रेक्षापूर्वकारिणामनवधेयवचनताप्रसक्तेः, तस्मान्न कालाकान्ताः प्रमाणतः सम्भवन्ति, 5 अतस्तद्वादो मिथ्यावाद इति स्थितम् । त एवान्योन्य सव्यपेक्षा नित्याचेकान्तव्यपोहेनैकानेकस्वभावाः कार्यनिर्वर्त्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्र. स्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः ।। ५३ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय. कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितत्त्व सोपाने कालाघेका
न्तवादिभजन नाम चतुस्त्रिंशं सोपानम् ॥
अथात्मनो मिथ्यात्वस्थानवर्णनम् ॥ यथैते कालाकान्ता मिथ्यात्वमनुभवन्ति स्याद्वादोपग्रहात्तु त एव सम्यक्त्वं प्रतिपद्यन्ते 15 तथाऽऽत्मापि एकान्तनित्यानित्यत्वादिधर्माध्यासितो मिथ्यात्वमने कान्तरूपतया त्वभ्युपगम्य. मानः सम्यक्त्वं प्रतिपद्यत इत्याह
णत्थि ण णिचो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णथि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५४ । नास्ति न नित्यो न करोति कृतं न वेदयते नास्ति निर्वाणम् ।
20 नास्ति च मोक्षोपायः षषिमथ्यात्वस्य स्थानानि || छाया ॥ नास्तीति । एकान्तत आत्मा नास्तीति बृहस्पतिमतानुसारी, अस्त्यात्मा किन्तु प्रतिक्षणविशरारुतया चित्तसन्ततेनं नित्य इति बौद्धाः । अस्त्यात्मा नित्यो भोक्ता न तु करोतीति सांख्याः, त एवं प्राहुन कर्ताऽसौ भोक्ता, प्रकृतिवत् कर्तुर्भोक्तृत्वानुपपत्तेः । यद्वा येन कृतं कर्म नासौ तद्भुङ्क्ते क्षणिकत्वाचित्तसंततेरिति बौद्धाः, क्षणिकत्वाञ्चित्तसन्ततेः कृतं न वेदयते 25 इति बौद्ध एवाह । कर्ता भोक्ता चात्मा किन्तु न मुच्यतेऽसौ चेतनत्वादभव्यवत् , रागादीनामात्मस्वरूपाव्यतिरेकात् तदक्षये तेषामप्यक्षयादिति याज्ञिकाः । निर्हेतुक एवासौ मुच्यते तत्स्वभावताव्यतिरेकेणापरस्य तत्रोपायस्याभावादिति मण्डली प्राह । एतानि
४१
"Aho Shrutgyanam"

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420