Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 372
________________ सम्मतितस्वसोपाने [ववियम् च कर्मणः नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुषकालस्वभावादेरपि जगद्वैचित्र्यकारणत्वे. नार्थतोऽभ्युपगमात्, न च चेतनवताऽनधिष्ठितमचेतनत्वाद्वास्यादिवत् कर्म प्रवर्तते । अथ तदधिष्ठायकः पुरुषोऽभ्युपगम्यते न तर्हि कमैकान्तवादः, पुरुषस्यापि तदधिष्ठायकत्वेन जग द्वैचित्र्यकारणत्वोपपत्तेः, न च केवलं किश्चद्वस्तु नित्यमनित्यं वा कार्यकृत्सम्भवतीत्यसकृद5 वेदितम् , तन्न कमैकान्तवादोऽपि युक्तिसङ्गतः । अन्ये त्वाहुः पुरुष एवैकः सकलजगस्थितिसृष्टिविनाशहेतुः, प्रलयेऽप्यलुप्तज्ञानातिशयशक्तिरिति, तथा चोक्तम् ' ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनां ॥' इति, तथा 'पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यम्' इत्यादि । ऊर्णनाभोऽत्र मर्कटको व्याख्यातः । अत्र सकललोकस्थितिसर्गप्रलयहेतुता ईश्वरस्येव पुरुषवादिभिः पुरुषस्येष्टा, अत्र च विशेषः, ईश्वरः 10 समवाय्याद्यपरकारणसव्यपेक्षो जगन्निवत्यति, अयन्तु केवल एवेति, तन्न, ईश्वरस्येवा. स्यापि जगद्धेतुताया असङ्गतः, तथाहि 'पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः। गगना. म्भोजवत्सर्वमन्यथा युगपद्भवेत् ॥' इति, किमर्थमयं पुरुषो जगद्रचनाव्यापारमीदृशं करोति, प्रेक्षापूर्वकारिप्रवृत्तिर्हि प्रयोजनवत्तया व्याप्ता, यद्यन्येनेश्वरादिना प्रयुक्तोऽनिच्छन्नपि करोति तदास्य स्वातन्त्र्यमभ्युपगतं विरुद्धं स्यात् , अथ कृपया परानुग्रहार्थं करोति नारकादिदुःखि15 तसत्त्वनिर्माणानुपपत्तिः न च तत्कर्मप्रक्षयार्थं दुःखितसत्त्वनिर्माणे प्रवृत्तिः, तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थं तन्निर्माणप्रवृत्तौ अप्रेक्षापूर्वकारितापत्तेः । न वा सर्गात् प्रागनुकम्प्यं सत्त्वमस्तीति निरालम्बनाया अनुकम्पाया अयोगात् , नातोऽपि जगत्करणे प्रवृत्तियुका । अनुकम्पातः प्रवृत्तौ च न सुखिसत्त्वप्रक्षयाथ तत्प्रवृत्तिर्युक्तेति देवादीनां प्रलयानुपपति. भवेत् । अनुकम्प्यानां धर्माधर्मापेक्षया सुखदुःखलोकसर्जने स्वातंत्र्यहानिस्तस्य भवेत्, 20 समर्थस्य हि न काचिदपेक्षा, तथापि कृपालुतया दुःखप्रदे कर्मण्यवधीरणमेव युक्तम् , न हि कृपालवः परदुःखहेतुमेवान्विच्छन्ति तेषां परदुःखवियोगेच्छयैव सर्वदा प्रवृत्तेः । न च क्रीडयोऽपि तत्र तस्य प्रवृत्तिः, क्रीडोत्पादेऽपि तदुपायभूतस्य सर्गस्थितिप्रलयात्मकस्यापेक्षणादस्वातंत्र्योपपत्तेः, क्रीडोपायोत्पादने यदि तस्य शक्तिः स्यात्तदा युगपदेव कुर्यात् , यदि नादौ शक्तिः, तदा क्रमेणापि न कुर्यात् , अशक्तावस्थाऽविशेषात् । एकत्रैकस्य शक्ता25 शक्तत्वलक्षणविरुद्धधर्मद्वयायोगात् । न च क्रीडार्था न प्रवृतिः किन्तु स्वभावतः यथा महा. भूतानां पृथिव्यादीनां स्वकार्येषु प्रवृत्तिरिति युक्तम् , एवं हि तद्व्यापारमात्रभाविनामशेषभावानां युगपद्भावो भवेदविकलकारणत्वात् , समर्थस्य सहकार्य पेक्षायोगात् पुरुषस्य केवल. स्यैव जगत्कारणत्वेनाभ्युपगमाञ्च, पृथिव्यादीनान्तु स्वहेतुबलायातापरापरस्वभावसद्भावात्तदु. त्पाद्यकार्यस्य न युगपदुत्पत्त्यादिदोषः सम्भवी । न च यथोर्णनाभः स्वभावतः प्रवृत्तोऽपि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420