Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 370
________________ : ३१८ : सम्मतितत्त्वसोपाने [ चतुस्त्रिंशम् तीति व्यतिरेकमा कार्यकारणभावनिश्चयनिमित्तम् , किन्तु येषु समर्थेषु हेतुषु सत्सु तदन्तर्गतस्यान्यतमस्य कस्यचिदभावे तदभवत् तत्कारणं तदिति व्यवस्थाप्यते, अन्यथा मातृवि. वाहोचितपारशीकदेशप्रभवस्य पिण्डखजूरस्य मातृविवाहाभावे सत्यभावप्रसङ्गो भवेत् । न चैवम्भूतव्यतिरेकस्य स्पर्शेन व्यभिचारोऽम्ति, रूपादिसन्निधानमुपदर्य तन्मध्यपातिस्पर्शा5 भावाञ्चक्षुर्विज्ञानाभावस्य प्रदर्शयितुमशक्यत्वात् , तस्मान्नास्ति कार्यकारणभावलक्षणस्य व्यभि चारः । नापि केवलं बीजादिरेव भावकारणं किन्तु देशकालादिरपि, अन्यथा प्रतिनियतदेशकालता तेषामुपलम्भगोचरचारिणी न स्यात् , उपलभ्यते च राजीवादीनामुपलादिदेशपरिहारेण सलिलादावेव वृत्तिः, शिशिरादिसमयपरिहारेण च निदाघादिसमये वृत्तिः, देश. कालनिरपेक्षत्वे तु सर्वत्र देशे काले च ते भवेयुः, प्रतिनियतदेशादौ वर्तमानत्वाच तत्सापेक्षा 10 भवन्तीति निश्चीयते । निरभिप्रायाणां कथमपेक्षेति चेत्तदन्यदेशादिपरिहारेण नियतदेशादौ वृत्तिरेवापेक्षेत्युच्यते न त्वभिप्रायात्मिका । अत एव तत्कार्यता तेषाम् , अपेक्षालक्षणत्वात्तत्कार्यत्वस्य, तथावृत्तिश्चाध्यक्षत एव सिद्धेति कथं न तत्कार्यतावगतिः, यदपि सुखादीनामहेतुकत्वसाधनाय कादाचित्कं साधनमुक्तं तत्साध्यविपरीतस्यैव साधनाद्विरुद्धम् , अनपेक्षस्याहेतोः कादाचित्कत्वानुपपत्तेः । साध्यविकलश्च दृष्टान्तः, अहेतुकत्वस्य तत्राप्यभावात् , प्रत्यक्षानुपल15 भाभ्यां हेतुत्वनिश्चयात् प्रत्यक्षविरुद्धापि प्रतिज्ञा। अनुपलभ्यमानसत्ताकत्वहेतोः सिद्धावपि यद्यनुपलम्भमात्रं हेतुस्तदाऽनैकान्तिकः, प्रमाणाभावात् कारणसत्ताऽभावासिद्धेः । व्यापकस्य स्वभावस्य कारणस्य वा निवृत्तौ सत्यामेव व्याप्यस्य कार्यस्य वा निवर्तनात् , न हि प्रमाणमर्थसत्ताया व्यापकं वृक्षत्ववच्छिंशपायाः, अभिन्नस्यैव व्यापकत्वात्। न च प्रमाणार्थसत्तयोरभेदो भिन्नप्रतिभासत्वात् । नापि प्रमाणमर्थस्य कारणम् , देशकालस्वभावविप्रकृष्टानामर्थानां प्रमाणे. 20 नाविषयीकृतानामपि सत्त्वस्याविरोधेन व्यभिचारात् । न हि तदन्तरेणापि भवत् प्रति तत्का रणमतिप्रसङ्गात् , कारणत्वाभ्युपगमे वा स्वपक्षपरित्यागो भवेत् , न वा प्रमाणात् प्रमेयमुत्पद्यते, अर्थादेव विषयभूतात् प्रमाणस्योद्भवात् । अप्रतिबद्धप्रमाणाञ्च नार्थसत्ता नि वर्तते, अन्यथाऽश्वनिवृत्तौ गोरपि निवृत्तिः स्यात् । किञ्चानुपलम्भोऽपि हेतुः किं सर्वस्य, स्वस्य वा, न प्रथमः सर्वानुपलम्भस्याग्दिर्शनेन निश्चेतुमशक्यत्वात् न ह्यान्डशा मयूरचन्द्र25 कादीनां सर्वैः पुरुषैरदृष्टं कारणं नोपलभ्यत इति निश्चेतुं शक्यम् । न द्वितीयः, खल. बिलाद्यन्तर्गतस्य बीजादेः स्वोपलम्भनिवृत्तावपि सत्ताया अनिवृत्तेर्हे तोरनैकान्तिकत्वात् एवञ्चोक्तम् , 'न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञा स्वयमेव बाधते । अथापि हेतुप्रण. यालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेन्' इति । तस्मान्न स्वभावैकान्तवादाभ्युपगमो १ स्वातिरिक्तयावत्कारणसद्भावे सत्यपि यदभावात् कार्याभावस्तत्तस्य कारणमित्यर्थः ।। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420