Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 368
________________ सम्मतितत्त्वसोपाने [ चतुस्त्रिंशम् योगात्, सदादेरपि घटायाकारादत्यन्तभेदे निराकारतया अत्यन्ताभावस्येवोपलम्भविषयस्वायोगात् , ज्ञेयत्वप्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो भेदेऽसत्त्वम् , सदादेश्च तेभ्यो भेदेऽज्ञेयत्वादसत्त्वमेव, ततः सदादिरूपतयोपलभ्यमानत्वाद्धटस्य तेभ्योऽभिन्नताऽभ्युपगन्तव्या, प्रमेयव्यवस्थितेः प्रमाणनिबन्धनत्वात् । यत् पुनः पृथुबुनोदराद्याकारतया पूर्व 5 सदादिर्नासीत् ततोऽसौ तेभ्योऽन्यः, घटादिरूपतया पूर्व सदादेरनुपलम्भात, प्रागपि तद्रूपस्य सदादौ सत्त्वेऽनुपलम्भायोगात्, दृश्यानुपलम्भस्य चाभावाच्यभिचारित्वात् , तदतद्रूपतायाश्च विरोधाभावात , प्रतीयमानायां तदयोगात् , अबाधितप्रत्ययस्य च मिथ्यास्वासम्भवात् ।। ५२ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितस्वसोपाने सदायेका न्तवादभञ्जनं नाम त्रयस्त्रिंशं सोपानम् ॥ 10 कालाद्येकान्तवादभञ्जनम् । 15 सदाथेकान्तयादवत् कालायेकान्तवादेऽपि मिथ्यात्वमेवेत्याह-~ कालो सहाव णियई पुवकयं पुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥ ५३ ।। कालः स्वभावनियती पूर्वकृतं पुरुषकारणैकान्ताः। मिथ्यात्वं त एव तु समासतो भवंति सम्यक्त्वम् ॥ छाया ॥ 20 काल इति । कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वम् , त एव समुदिताः परस्पराजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्त इत्यर्थः । तत्र काल एव एकान्तेन जगतः कारणम् , सर्वस्य हि शीतोष्णवर्षवनस्पतिपुरुषादेर्जगतः उत्पत्तिस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमनागमनादौ च कालः कारणम् , तं विनाऽन्यकारणत्वेनाभिमतभावसद्भावेऽपि सर्वस्यास्याभावात् , तत्सद्भावे च 25 भावात् , तदुक्तम् ‘कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः' [ महाभार. आदिप० अ० १, श्लो० २७३ ] इति कालवादिनः प्राहुः, असदेतत् , तत्सद्भावेऽपि कदाचिदृष्ट्यादेरदर्शनात् । न च कालविशेषाभावात् तद. भवनमिति वाच्यम् , नित्यैकरूपस्य तस्य विशेषाभावात् , विशेषे वा तजननाजननस्वभाष. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420