Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 367
________________ 10 सोपानम् ] सदायेकान्तवादभजनम् । एकान्ततोऽसति कार्ये न कारणव्यापारस्तेनाभ्युपगन्तव्यः असति तत्र तदभावात् , नापि सति, मृत्पिण्डे तस्य तमन्तरेणापि ततः प्रागेव निष्पन्नत्वात् । न च मृत्पिण्डे कारकव्यापारः अन्यत्र पृथुबुध्नोदराद्याकारस्तत्फलम् , अन्यत्र व्यापारेऽन्यत्र फलासम्भवात् , स एव मृत्पिडः कारकव्यापारात् पृथुबुध्नोदराद्याकारतां प्रतिपद्यत इति कारकव्यापारफलयोरेक. विषयत्वे अनेकान्तवादसिद्धिः, तस्माद्व्यास्तिकपर्यायास्तिकाभ्यां केवलाभ्यां सहिताभ्याम-5 न्योन्यनिरपेक्षाभ्यां व्यवस्थापितं वस्तु असत्यमिति तत्प्रतिपादक शास्त्रं सर्व मिथ्येति व्यवस्थितम् ॥ ५० ॥ अमुमेवार्थमन्वयव्यतिरेकाभ्यां द्रढीकर्तुमाह ते उ भयणोवणीया सम्मइंसणमणुत्तरं होंति । जं भवदुक्खविमोक्खं दो वि न पूरेंति पाडिकं ॥५१॥ तौ तु भजनोपनीतौ सम्यग्दर्शनमनुत्तरं भवतः । यस्माद्भवदुःखविमोक्षं द्वावपि न पूरयतः प्रत्येकम् ॥ छाया ॥ ताविति, द्रव्यपर्यायास्तिकनयौ भजनया परस्परस्वभावाविनाभूततया सदसद्रूपैकान्तव्यवच्छेदेन तदात्मकैककार्यकारणादिवस्तुप्रतिपादकत्वेन उपयोजितौ यदा भवतस्तदानुत्तरं सम्यग्दर्शनं भवतः परस्पराविनिर्भागवर्तिद्रव्यपर्यायात्मकैकवस्तुतत्त्वविषयरुच्यात्मकाबा- 15 धितावबोधस्वभावत्वात् । यदा वन्योन्यनिरपेक्षद्रव्यपर्यायप्रतिपादनत्वेनोपनीतौ भवतो न तदा सम्यक्त्वं प्रतिपद्येते तस्मात् संसारभाविजन्मादिदुःखविमोक्षं तौ द्वावपि प्रत्येकं न विधत्तः मिथ्याज्ञानात् सम्यक्रियानङ्गतया आत्यन्ति कभवोपद्रवानिवृत्त्यसिद्धेः तद्विपर्यय. कारणत्वात् । ततः कारणात् कार्य कथञ्चिदनन्यत् अत एव तदतद्रूपतया सञ्चासच्चेति ॥५१॥ अमुमेवार्थमुपसंहरति नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो । जं पुण घडो त्ति पुन्वं ण आसि पुढवी तओ अण्णो ॥५२ ।। नास्ति पृथिवीविशिष्टो घट इति यत्तेन युज्यतेऽनन्यः । यत् पुनः घट इति पूर्व नासीत् पृथिवी ततोऽन्थः ।। छाया ।। नास्तीति, सद्रव्यमृत्पृथिवीत्वादिभ्यो भिन्नो नास्ति घटः, सदादिव्यतिरिक्तस्वभावतया तस्यानुपलम्भात् , यदि सस्वादिधर्माणां घटादेकान्ततो भेदः तेभ्योऽपि घटो भिन्नो न तदा घटस्य सदादित्वं स्यात् , स्वतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव तथात्वा 20 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420