Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
'सम्मतितत्वलोपाने
[ अयरिंशम् वैशेषिकस्य परस्परविरुद्धशुक्लादिनानारूपेभ्यश्चित्रैकरूपोत्पादासम्भवाच्च, शुक्लादिरूपाणां समानरूपारम्भकत्वोपलम्भात् । किञ्च शुक्लाच्छुक्लमित्यादिप्रतीतेः समानजातीयगुणारम्भकत्वमेव यदि कारणगुणानामित्यभ्युपगम्यते तर्हि कारणगतशुक्लादिरूपविशेषेभ्यः कार्येऽपा
स्ततद्विशेषस्य रूपमात्रस्य कथमुत्पत्तिर्भवेत् , तेभ्यस्तस्यासमानत्वात् । अथ तद्गतरूपमात्रेभ्यस्त. 5 दूपमात्रस्योत्पत्तेर्न दोष इति चेन्न शुक्लादिविशेषरूपव्यतिरेकेण रूपत्वादि सामान्यमपहाय रूप
मात्रस्याभावात् , सामान्यस्य च नित्यत्वेनाजन्यत्वात् , न च रूपमात्रनिबन्धनः चित्ररूपः पट इति प्रतिभासो युक्तः, शुक्ला दिप्रत्ययस्यापि तन्निबन्धनत्वेन शुक्लादिरूपविशेषस्याप्यभावप्रसक्तेः, न चावयवगतचित्ररूपात् पटे चित्रप्रतिभासः, अवयवेष्वपि तद्रूपासम्भवात् , न चान्यरूप
स्यान्यत्र विशिष्टप्रतिपत्तिजनकत्वम् , पृथिवीगतचित्ररूपाद्वायौ चित्ररूपप्रतिपत्तिप्रसक्तः । 10 यदि च रूपमात्रमेव तत्र स्यात् क्षितावनेकप्रकारं रूपमिति विरुद्ध्यते, अनेकप्रकारं हि
शुक्लत्वादिभेदभिन्नमुच्यते रूपमात्रश्च शुक्लादिविशेषरहितं तस्य शुक्लादिविशेषेष्वनन्तर्भा. वात् कथं न विरोधः । न च नीलादिरूपैरेकरूपारंभादेकमेव पटे चित्रं रूपम् , यथाहि रूपस्य विशेषः शुक्लादिस्तथा चित्रमपि रूपविशेष एव चित्रशब्दवाच्य इति वक्तव्यम् ,
अनेकाकारस्यैकत्वे चित्रैकशब्दवाच्यत्वे वा सदसदनेकाकारानुगतस्यैकस्य कारणादिशब्दवा15 ध्यत्वेनाभ्युपगमप्रसङ्गात् । यथा च बहूनां तन्त्वादिगतनीलादिरूपाणां पटगतैकचित्ररूपार
म्भकत्वं दृष्टत्वादविरुद्धं तथानेकाकारस्यैकरूपत्वं वस्तुनो दृष्टत्वादेवाविरुद्धमभ्युपगन्तव्यम् , अत एवानेकरूपत्वाश्चित्ररूपस्य एकावयवसहितेऽवय विन्युपलभ्यमाने शेषावयवावरणे चित्रप्रतिभासाभाव उपपत्तिमान । सर्वथा त्वेकरूपत्वे तत्रापि चित्रप्रतिभासः स्यात. अवयवि
व्याप्त्या तद्रूपस्य वृत्तेः । न चावयव नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं 20 जनयतीति तत्र सहकार्यभावाञ्चित्रप्रतिभासानुत्पत्तिरिति वाच्यम् , अवयविनोऽप्यनुपलब्धि
प्रसङ्गात् , न हि चाक्षुषप्रतिपत्त्याऽगृह्यमाणरूपस्यावयविनो वायोरिव ग्रहणं दृष्टम् , न च चित्ररूपव्यतिरेकेणापरं तत्र रूपमस्ति यतस्तत्प्रतिपत्त्या पटग्रहणं भवेत् । नाप्यवयवरूपोपलम्भोऽवयविरूपप्रतिपत्तावक्षसहकारी, तद्भावे वा तदवयवरूपोपलम्भोऽपि स्वावयवरूपोप
लंभाक्षसहकारीति तमन्तरेण स न स्यादित्येवं पूर्वपूर्वावयवरूपोपलम्भापेक्षया परमाणुरूपो25 पलम्भाभावात्तजन्यव्यणुकाद्यवयविरूपोपलेभासम्भवान्न कचिदपि रूपोपलब्धिः स्यात् ,
तदभावे च नावयव्युपलब्धिरिति तदाश्रितपदार्थानामप्युपलम्भाभावात् सर्वप्रतिभासाभावः स्यात् । तत एकाने कस्वभावं चित्रपटरूपवद्वस्तु परेणाप्य भ्युपगन्तव्यमेव । बौद्धनापि चित्रपटप्रतिभासस्यैकानेकरूपतामभ्युपगच्छता एकानेकरूपं वस्त्वभ्युपगतमेव । अथ प्रतिभासोऽ प्येकानेकरूपो नाभ्युपगम्यते तर्हि सर्वथा प्रतिभासाभावः स्यादिति असकृदावेदितम् । तत
"Aho Shrutgyanam"

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420