Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 369
________________ सोपानम् ] कालायेकान्तवादभञ्जनम् । : ३१७ : प्रसङ्गतो नित्यत्वव्याहतेः, स्वभावभेदतो भेदात् । न वा प्रहमण्डलादिकृतो वर्षादेविशेष इति वक्तव्यम् , तस्याप्यहेतुकतयाऽभावात् , न च कालो हेतुरन्योऽन्याश्रयात् , कालभेदे सति वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः, तद्भेदाच कालभेद इति । अन्यकारणकृते वर्षादिभेदेऽभ्युपग. म्यमाने कालस्यैव कारणत्वमित्यभ्युपगमभङ्गः, अन्यतः कुतश्चित्कालभेदे चानित्यत्वमेव तस्य स्यात् , तत्र चोत्पादस्थिति विनाशेषु यद्यपरः कालः कारणं तदा तत्रपि स एव पर्यनुयोग 5 इत्यनवस्थानान्न वर्षादिकार्योत्पत्तिः स्यात् , न चैकस्य कारणत्वं युक्तम् , क्रमयोगपद्याभ्यां तद्विरोधात् , तन्न काल एवैकः कारणं जगतः । अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति, अत्र यदि स्वभावकारणत्वे भावस्य तदा स्वात्मनि क्रियाविरोधो दोषः स्यात्, अनुत्पन्नानां स्वभावस्यैवाभावात् , उत्पन्नानां स्वभावसम्भवेऽपि पूर्व तदभावादेव भावस्योत्पत्तेर्न तत्र स्वभावः कारणं भवेत् । अथ कारणमन्तरण स्वपरकारणनिमित्तजन्मनिरपेक्ष. 10 तया सर्वहेतुनिराशंसस्वभावा भावा भवन्ति, युक्तिश्चात्र यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकं तत् प्रेक्षावतामसद्व्यवहारविषयः, यथा शशविषाणम् , अनुपलभ्यमानसत्ताकश्च भावानां कारणमिति स्वभावानुपलब्धिः, न चायमसिद्धो हेतुः, कण्टकतैक्ष्ण्यादेनिमित्तभूतस्य कस्यचिदध्यक्षादिनाऽसंवेदनात् । अथ कारणानुपलम्भाद्वाह्यानां भावानामहेतुकत्वसिद्धावपि कथमाध्यात्मिकानां तत्सिद्धिरिति चेदुच्यते, यत्कादाचित्कं तदहेतुकम् यथा 15 कण्टकतैक्ष्ण्यादि, कादाचित्कञ्च सुखादिकमिति स्वभावहेतुः, न चापि यस्य सदसद्भावयो. यस्य सदसद्भावी नियमेन भवतस्तत्तस्य कारणमिति युक्तम् , व्यभिचारात् स्पर्श सति भवतोऽसत्यभवतोऽपि चक्षुर्विज्ञानस्य तदकारणकत्वात् तस्मात्कार्यकारणभावस्य व्यभि. चारित्वाद्भावानां जन्म सर्वनिराशंसमिति सिद्धम् , अत्रोच्यते, न कण्टकतैक्ष्ण्यादेरपि निर्हेतुकत्वं सिद्धम् , प्रत्यक्षानुपलम्भाभ्यां हि बीजा दिकं तत्कारणत्वेन निश्चितम् , यस्मिन् 20 सत्येव यस्य जन्म यस्य च विकाराद्यस्य विकारस्तत्तस्य कारणमुच्यते, उच्छूनादिविशिष्टावस्थाप्राप्तञ्च कण्टकतैक्ष्ण्यादिनिरूपितान्वयव्यतिरेकव द्वीजादिकं प्रत्यक्षानुपलम्भाभ्यां कारणतया निश्चितमिति अनुपलभ्यमानसत्ताकं कारणमित्यसिद्धो हेतुः । कार्यकारणभाव. लक्षणं स्पर्शादौ व्यभिचारीत्यप्यसिद्धम् , स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञानेऽपि कारणतयेष्टत्वात् , तमन्तरेण विशिष्टावस्थस्य रूपस्यैवासम्भवात् । नापि यस्याभावे यन्न भव- 25 १ अत्र स्वभाववादेन वादद्वयमभिप्रेत, स्वत एव भावा जायन्ते इत्येको वादः, अपरस्तु न स्वतो नापि परतो भावा जायन्ते किन्तु स्वपरकारणनिरपेक्ष भावानां जन्मेति, यदीत्यादिग्रन्थेना द्यवादनिरास: कृतः, द्वितीयवादं सम्प्रत्याह अथेति, अत्र पक्षे स्वभावोऽपि न कारणम् पूर्ववादे तु तत्कारणमिति बोध्यम् । २ स्पर्श इति भूतान्युच्यन्ते, तानि चोपादायोपादाय रूपं वर्तते, ततश्चक्षुर्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव, केवलं साक्षात् पारम्पर्यकृतो विशेषः इति बौद्धाः ।। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420